________________ ( 181) .. 'प्रत्ययो भवति / व्याकरणं वेत्ति वाऽधीते 'ऐकायें। इति विभक्तेलपि व्याकरण+अण् इति स्थिते.. स्वः पदान्तात् प्रागैदौत् / 7 / 4 / 5 / / मिति णिति तद्धिते परे इवोवर्णयोईद्धिप्राप्तौ सत्यां तयोरेक स्थाने यौ यकारवकारौ पदान्तौ जातौ ताभ्यां यकारवकाराम्या प्राग् यथासंख्यभद्रौतौ भवतः / वैयाकरणः / एवं न्यायमंधीते वेत्ति वा नैयायिकः / न्यायादेरिकण् / 6 / 2 / 118 अतो वेत्त्यधीते वेत्यर्थे इकण भवति / नैयायिकः / नैयासिकः / सैद्धान्तिकः / पदक्रमशिक्षामीमांसासाम्नोऽकः / 6 / / 126 / एभ्यो वेत्त्यधीते वेत्यर्थेऽकः भवति / पदं भवेत्यधीते वेति पदकः, एवं क्रमकः, शिक्षकः, मीमांसकः, सामकः / संख्याकात् सूत्रे / 6 // 2 // 128 / संख्यावाचकात् परो यः कः तदन्तात् सूत्रार्थाद् वेत्यधीते वेत्यर्थे प्रत्ययस्य लुब् भवति / अष्टकाः पाणिनीयाः / प्रोक्तात् / 6 / 2 / 120 / .. ' प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुब् भवति / गोतमेन प्रोक्तं गौतमम्, गौतम वेत्त्यधीते वेति गौतमः /