________________ (158) प्रति-परोऽनोरव्ययीभावात् / 7 / 3 / 87 / प्रत्यादिपूर्वादक्ष्यन्तादव्ययीभावादद् भवति / प्रत्यक्षम् / परोक्षम् / अन्वक्षम् / 'अन्नन्ताव्ययीभावाद वाच्यः' उपतक्षम् / - गिरि-नदी-पौर्णमास्याग्रहायग्यपञ्चमवाद् वा। 7 / 3 / 90 / / .. एतदन्तात् पञ्चमवर्जवर्गान्ताच्चाव्ययीभावादद् वा भवति / मन्तर्गिरम्, अन्तगिरि / उपनदम्, उपनदि / उपपौर्णमासम्, उपपौर्णमासि / उपाग्रहायणम्, उपायहायणि / उपउचम्, उपचुक् / 'संख्यार्थात् पराभ्यां नदी-गोदावरीभ्यां तु नित्यं बकव्यः / पञ्चनदम् , द्विगोदावरम् / जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् / 7 / 3 / 95 / एभ्यः परो य उक्षशब्दस्तदन्तात् कर्मधारयादद् भवति / नातोलः / महोक्षः / वृद्धोक्षः। / स्त्रियाः पुंसो द्वन्द्वाच / 7 / 3 / 96 / स्त्रीशब्दात् परो यः पुमान् तदन्ताद् द्वन्द्वात् कर्मधारयाचाद् भवति / स्त्रीपुंसौ / स्त्रीपुंसः / 'ऋक्सामे, ऋग्यजुषम्, धेन्वनमुंहौ, वाङ्मनसे, अहोरात्रः, रात्रिंदिवम् , नक्तंदिवम्, अहर्दिवम् , ऊर्वष्ठीवम् , पदष्ठीवम्, अभिभुवम्, दारगवम् / एते अदन्ता दन्द्धे निपात्याः / / .... ..... ..