________________ (113) नकर्तुः। वीति किम् पयसा ओदनं मुङ्क्ते, अत्र करणस्य मा भूत्। पुनस्वत् कर्म त्रिविधम् इष्टमनिष्टमनुभयं च / यदिच्छाविषयीभूतं सदाप्तुं क्रियामारभते तदिष्टं घटादि / यद् द्विष्टं स्त् प्राप्यते तदनिष्टं विषादि विषं भक्षयति, अहिं लङ्घयति / यत्र नेच्छा न च द्वेषस्तदनुभयं यथा ग्रामं गच्छन् तृणं स्पृशति / पुनस्तद् द्विविध प्रधानेतरभेदात् , तच्च द्विकर्मकधातूनां ज्ञेयम् / दुहि-भिक्षि-रुधिप्रच्छि-चिग्-अंग्-शास्वर्थेषु याचि-जयति-प्रभृतिषु च सत्सु यथा गां दोग्धि पयः, पुरोहितं गां भिक्षयते, व्रज * गामवरुणद्धि, छात्रं पन्थानं पृच्छति, वृक्षं फलान्यवचिनोति, शिष्यं धर्म ब्रूते शास्ति च, क्रुद्धं शान्ति याचते,. याचिरिहानुनयार्थस्तेन भिक्ष्यर्थाद् भेदः, गर्गान् शतं जयति, अमृतमम्भोधि मथ्नाति, देवदत्तं शतं मुष्णाति। तथा नी-ह-वहि-कृषीणां च ग्राममनां नयति हरति वहति कर्षति का, तन्दुलान् ओदनं पचति / 'स्मृत्यर्थदयेशां व्याप्यं वा कर्म , मातरं स्मरति, मातुः स्मरति पक्षे षष्ठी। . कालाध्वभावदेशं वाऽकर्म चाकर्मणाम् / 2 / 2 / 23 / - कालः मुहूर्तादिरूपः, अध्वा गन्तव्यं क्षेत्रं क्रोशादिः, मावः क्रिया, देशो जनपदः, अकर्मकधातूनां योगे यः कालादिराधारःस कर्मसञो वा स्याद् , अकर्म च कर्माकर्मसज्ञो युगपद् भवतीत्यर्थः / मासमास्ते, मास आस्यते। क्रोशं स्वपिति, क्रोशः सुप्यते / गोदो. हमास्ते, गोदोह आस्यते। कुरून् आस्ते, कुरव आस्यन्ते / युगपद् 8