________________ (101) गौरादिभ्यो मुख्याद् डीः / 2 / 4 / 19 / - गौरादिगणपठिताद् मुख्यान नाम्नः स्त्रियां कीप्रत्ययः स्यात्। गौरी। शवली। नदी। कल्माषी। सारङ्गी। नर्तकी। अनड्वाही। अनडुही / पीपली / आकृतिगणोऽयम् / संख्यादेयिनाद् वयसि / 2 / 4 / 9 / ___संख्यादेर्हायनान्ताद् नाम्नः स्त्रियां ङीप्रत्ययः स्याद्, चयसि गम्यमाने / द्विहायनी। 'चतुर्हायनाद् वयसि इति नस्य णत्वे चतुर्हायणी / त्रिहायणी। . पुरुषाद् वा / 2 / 4 / 25 / प्रमाणवाचिपुरुषान्ताद् द्विगोः स्त्रियां डीर्वा स्यात् तद्धितमुकि / द्विपुरुषी द्विपुरुषा परिखा / वरुणेन्द्ररुद्रभवशमृडादान् चान्तः / 2 / 4 / 62 / एभ्यो धववाचिनामभ्यस्तद्योगे स्त्रियां ङीः स्यात्, तत्संनियोगे आन् चान्तः / वरुणानी / इन्द्राणी। रुद्राणी। भवानी / शर्वाणी। मृडानी / मातुलाचार्योपाध्यायेम्योङीस्तद्योगेवाऽऽन् चान्तः / मातुलानी मातुली / आचार्यानी आचार्टी / उपाध्यायानी उपाध्यायी। आर्यक्षत्रियाद् वा / 2 / 4 / 66 / .. आभ्यां ङीर्वा स्यात्, तत्सन्नियोगे आन्चान्तः स्वार्थे /