________________ to काव्यमाला। विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः चात्र क्वचिद्विषयानुपादानम् / वाच्योपयोग्याध्यवसायस्य साध्यमानत्वेनोपक्रान्तत्वात् / क्वचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वम् / इवाद्युपादानान्निगीर्यमाणतायाः प्राधान्यात्संभावनाप्रत्ययस्यैवोद्रेकात् / अत एव चात्र विषयस्य निगीर्यमाणत्वादारोपगर्भत्वं न वाच्यम् / तत्र विषयस्य विषयितया प्रतीतिः / इह पुनविषयस्य निगीर्यमाणत्वेन विषयिण एव प्रतीतिः। ननु विषयनिगरणमध्यवसायस्य लक्षणम् इह पुनर्विषयस्य निगीर्यमाणतेति कथमत्राध्यवसायतेति चेत्, नैतत् / 'विषय्यन्तः कृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका' इत्याद्युक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणम् / तच्च विषयस्य निगरणेन निगीर्यमाणत्वेन वा भवतीति न कश्चिद्विशेषः। निगीर्यमाणमपि , पूर्वोक्तनीत्या विषयस्योपात्तस्यानुपात्तस्य वा भवतीत्यपि न कश्चिद्विशेषः / एवं सिद्धेऽध्यवसायेऽध्यवसितप्राधान्यं साध्ये च स्वरूपप्राधान्यमिति सिद्धम् / एतच्च ग्रन्थकृदेव विभज़्याग्रे वक्ष्यतीति तत एवावधार्यम् / यदेव चाध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वम् / संभावना ह्येकतरपक्षशिथिलीकारेण पक्षान्तरदायेन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्यकक्षत्वम् / तस्यापि विषयशिथिलीकारेण विषयिदायेन चोत्पत्तेः / अत एव विषयिणोऽपि शाब्देन वृत्तेन सत्यत्वम् / विषयदार्थेनैव साध्यवसायखरूपप्रादुर्भावात् / यदुक्तं भवद्भिरेव 'संभावनायां च संभाव्यमानस्य दाादपरस्य च शैथिल्यात्' इति / इह संभाव्यमानस्य विषयिणो दाादत्र संशयाद्वैलक्षण्यम् / तस्य ह्यनियतोभयांशावलम्बी किंखिदिति विमर्शी लक्षणम् / संभावनाविषयस्य च शैथिल्यान्निश्चयादपि भेदः / निश्चये हि बाधकसद्भावादेकस्य पक्षस्यापसरणेन शैथिल्येन वा साधकसद्भावाच्च पक्षान्तरस्य सिद्धिः स्यात् / अतिशयोक्तिश्च निश्चयात्मिकेति ततोऽस्या भेदः। यत्तु साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः' इत्यादि ग्रन्थकृद्वक्ष्यति तद्वस्तुवृत्ताभिप्रायेणावगन्तव्यम् / तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसायमूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानम् / तस्मात् 'इवादौ निश्चयाभावाद्विषयस्य परिग्रहात् / क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात् // ' इत्याद्युक्तमयुक्तमेवेत्यलं बहुना / एतदेव व्याचष्टे-विषयेत्याद्रिना। अभेद 1. 'मूलत्वम्' क. 2. 'साध्याध्यवसाय' क. 3. 'असंभाग्यमानस्य' ख.