________________ __-काव्यमाला / * एवमभेदप्राधान्ये भारोपगर्भानलंकारांल्लक्षयित्वा अध्यवसायगर्भाल्लक्षयति क्या त्वदधरसुधासंग्रहपरः // ' अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य तत्फलभूतं निमित्तान्तरमध्यवसितम् / एतदुपसंहरन्नन्यदवतारयति / एवमित्यादि / आरोपगर्भानिति / अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लप्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः / तत्र तावदुत्प्रेक्षां लक्षयतिअध्यवसाय इत्यादि / अध्यवसाय इति न पुनः संदेहः / इह हि निश्चयानिश्चयरूपत्वेन प्रत्ययानां द्वैविध्यम् / निश्चयश्चार्थाव्यभिचारी सम्यक, अन्यथा त्वसम्यगिति भेदो न ग्राह्यः / प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् / तस्य च प्रामाण्यविचारे उपयोगात् / अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः / अतश्चानिश्चितं च संदिग्धमेवेति न वाच्यम् / तकोत्मनः संभावनाप्रत्ययस्याप्यनिश्चयात्मकत्वे संदिग्धत्वाभावात् / उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कप्रतीतिमूलेति नास्याः संदेहमूलत्वम् / तस्य भिन्नलक्षणत्वात् / अथानवधारणज्ञानसंशय इत्यनवधारणज्ञानत्वाविशेषात्संशयान्नार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत्, नैतत् / अनवधारणज्ञानत्वाविशेषेऽपि संशयतर्कयोर्भिन्नरूपत्वात् / तथाहिस्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः / पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः / पुरुष एवायमिति पक्षान्तरसंस्पर्शेनैकतरपक्षनिर्णयो निश्चय इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यम् / बाढमस्त्येव प्रत्ययानां त्रैविध्यम् / किं त्वनवधारणज्ञानत्वाविशेषात्त. सामान्यतर्कोऽपि संशयप्रकार इति चेत्, नैतत् / एवं ह्यसम्यग्ज्ञानत्वाविशेषाशमोऽपि संशयप्रकारः स्यात् / अर्थनिश्चयानिश्चयखभावत्वादिना अस्त्यनयोर्विशेष इति चेत् , इह पुनर्नास्त्यत्र किं प्रमाणम् / संशयो ह्यतिशयतोभयांशावलम्बित्वेनोदेति तर्कः पुनरंशान्तरबाधनेनेव वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशा तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः / देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ अपि तु शिथिलीभवति संभवत्प्रमादत्वाच्च सर्वा 1. 'तत्तत्' क. 2. 'संदेह इति' ख. 3. 'भेदेन' क. 4. 'अनवधारणताविशेषात्' ख. 5. 'विशेषात्संशयप्रकारस्तर्क इति' ख. 6. 'नास्तीति किं' क.