________________ अलंकारसर्वस्वम् / 250 जकत्वे तु श्रौतोपमादेरपि शब्दालंकारत्वप्रसङ्गात् / तस्मादाश्रयाश्रयिभावेनैव चिरंतनमतानुसृतिरिति भद्रम् / संपूर्णमिदमलंकारसर्वखम् / रस्य चैतदुभयालंकारत्वमौद्भटमत एवावसेयम् / ग्रन्थकृता ह्यस्य समनन्तरमेव संसृष्टावन्तर्भाव उक्तः / अतश्च ग्रन्थकृन्मते लाटानुप्राससंसृष्टिः / श्लेषाणामेवोभयालंकारत्वम् / ननु तुल्यत्वेऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चिदर्थस्य कश्चिदुभयस्येति कुतः पुनरयं प्रतिनियम इत्याशङ्कयाह-लोकवदित्यादि / लोके हि योऽलंकारो यदाश्रितः स तदलंकारतयोच्यते, यथा कुण्डलादिः कर्णाद्याश्रितस्तदलंकारः। एवमिहापि शब्दाद्याश्रितस्तदलंकार इति सिद्ध एव विषयविभागरूपः प्रतिनियमः / यत्त्वन्यैरन्वयव्यतिरेको तदलंकारनिबन्धनत्वेनोक्ती तदयुक्तमेवेत्याह-अन्वयेत्यादि / एवं हि श्रौतोपमायामिवादिशब्दान्वयव्यतिरेकानुवर्तनात्तत्कार्यमेव न पुनस्तदलंकारजम् / तस्याविशेषात् / अर्थस्य पुनरलंकृतत्वात्तदलंकारत्वमेव युक्तमिति तात्पर्यार्थः / एतच्चोद्भटविवेके राजानकतिलकेन सप्रपञ्चमुक्तमिति ग्रन्थविस्तरभयान्नेहास्माभिः प्रपञ्चितम् / एतदेवोपसंहरति-तस्मादित्यादि / आश्रयाश्रयिभावेनेति / उपस्कार्योपस्कारकभावेनेत्यर्थः / तेन योऽलंकारो यदुपस्कारः स तदलंकार इति पिण्डार्थः / चिरंतनेति / अनेनास्माभिः सर्वत्रैव तन्मतानुसूतिरेव कृतेयात्मविषयमनौद्धत्यमपि ग्रन्थकृता प्रकाशितमिति शिवम् // . राजराज इति भूभुजामभूदग्रणीर्गुणिगणाश्रयः परम् / तां सतीसरसि राजहंसतामातनोत्किल घनागमेऽपि यः॥ शक्राधिकश्रियस्तस्य श्रीशृङ्गार इति श्रुतः। गुणातिकान्तधिषणो मन्त्रिणामग्रणीरभूत् // तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभिधः। व्यधादिदमसामान्यं श्रवणाभरणं सताम् // . यन्नाम किंचिदिह सम्यगथान्यथा वा साक्षादलंकृतिनयोचितमेतदुक्तम् / विद्वेषरोषमपसार्य बुधैः क्षणस्य तत्रावधेयमियतैव वयं कृतार्थाः // इति श्रीजयरथविरचितालंकारविमर्शिनी संपूर्णा // - 17 अ. स.