________________ 256 काव्यमाला / रस्तु भट्टोद्भटप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव संकर इह प्रदर्शितः / इदानीमुपसंहारसूत्रम्__एवमेते शब्दार्थोभयालंकाराः संक्षेपतः सूत्रिताः। - एवमिति पूर्वोक्तप्रकारपरामर्शः। एते इति प्रक्रान्तस्वरूपनिर्देशः / सूत्रिता अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः। - तत्र शब्दालंकारा यमकादयः / अर्थालंकारा उपमादयः / उभयालंकारा लाटानुप्रासादयः / संसृष्टिसंकरप्रकारयोरपि कयोश्चित्तद्रूपत्वात् / लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम् / अन्वयव्यतिरेको तु तत्कार्यत्वे प्रयोजको / न तदलंकास्त्वे / तदलंकारप्रयो प्रकाशकारेण शब्दार्थवर्तिनोरलंकारयोः संकर उक्तो यावदनेनापीति भावः / तदुक्तम्-'शब्दार्थवत्यलंकारवाक्य एकत्र भासिनः / संकरः / ' इति / संसप्राविति / अनयोह्याश्रयभेदात्तिलतण्डुलन्यायेन स्पष्ट एव भेदावगम इत्यत्रैवान्तर्भावो युक्तः / त्रिप्रकार इति / अङ्गाङ्गिभावसंशयकवाचकानुप्रवेशेन / यदुकम्-'तेनासौ त्रिरूपः परिकीर्तितः' इति / एवं संदेहसंकरस्यानुपपत्ताबपि चिरंतनोक्तत्वादेवास्य ग्रन्थकृता त्रिप्रकारत्वमेवोक्तम् // अधुनतेषामलंकाराणामुपसंहारं कर्तुमुपक्रमते-इदानीमित्यादिना / प्राप्तावसरेति / यथातत्त्वं सर्वेषामलंकाराणां निर्णीतत्वात् / तदेवाह-एव मित्यादि / एतदेव व्याचष्टेएवमित्यादिना / संक्षेपेणेति / ग्रन्थस्य / न पुनरर्थस्य / तस्य हि तथालकथने तेषां स्वरूपमेव कथितं न स्यात् / एवं ग्रन्थसंक्षेपेणापि सर्वेषामलंकाराणां विस्तरत एव यथासंभवि वरूपमुक्तमिति प्राच्यालंकारग्रन्थेभ्योऽस्य वैलक्षण्यमपि ध्वनितम् / तत्र ग्रन्थविस्तरेणाप्येतत्स्वरूपस्यानभिधानात् / अत एव ग्रन्थकारेण प्रयोजनमपि द्योतितम् / के ते शब्दार्थोभयालंकारा इत्याशङ्कयाह-तत्रेत्यादि। आदिग्रहणादनुप्रासानन्वयश्लेषादीनां ग्रहणम् / ननु च लाटानुप्रासश्लेषयोरेवोभयालंकारत्वे पूर्वमुक्त्वा उभयालंकारा इति बहुवचननिर्देशः कथं संगच्छतें इत्याशङ्कयाह-संसृष्टीत्यादि / तत्र संसृष्टेरुभयालंकारत्वं यथा-'आनन्दमन्थर-' इत्यादि / संकरस्य यथा-'मेवमेवाखसच्छायकर्णिकाचास्वर्णिता। अम्भोजिनीव चित्रस्था नेत्रमात्रसुखप्रदा // ' अत्र शब्दार्थालंकारसंसर्गादुभयालंकारत्वम् ! संक