________________ 254 काव्यमाला। यज हारः कुठारायते।' इति / तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकादेराकृतिगणत्वाद्रूपकसमाश्रयेण रूपकमेव बोद्धव्यम् / एवं 'भाष्याब्धिः कातिगम्भीरः' इत्यादौ द्रष्टव्यम् / साधकबाधकाभावे तु संदेहसंकरः / यथोदाहृतम् / तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः। यत्रैकस्मिन्वाचकेऽनेकालंकारानुप्रवेशः, न च संदेहः / यथा 'मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी / तवापि मूर्ध्नि गङ्गेव'चक्रधारा पतिष्यति // ' अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकप्रतिपन्थिनीति श्लिष्टविशेषणसमुत्थश्चोपमाप्रतिभोत्पत्तिहेतुः श्लेषश्चैकस्मिन्नेवशब्देऽनुप्रविष्टौ, तस्योभयोपकारित्वात् / अत्र यथार्थश्लेषेण सहोपमायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते / यथा बालं फलम् // इति चास्य पादत्रयी / एवं चाधिकप्रकर्षालंकारोपक्रमेण तत्प्रकर्षालंकारैर्निर्वाही न कार्य इत्यप्यनेन सर्वालंकारशेषत्वेनोक्तम् / प्रकृत इति / शरदीवेत्यादौ / द्रष्टव्यमिति / उपमाया बाधकत्वं प्रति गम्भीरत्वस्य सामान्यस्य हि प्रयोगे उपमासमासे बाधक इति रूपकपरिग्रह एव युक्तः / उदाहृतमिति / 'यः कौमारहरः' इत्यादिना / न च संदेह इति / संदेहसत्कारे यद्यय्येकवाचकत्वमस्ति, तथापि तत्र संदिह्यमानत्वेन चमत्कारोऽस्तीति ततोऽस्य वैलक्षण्यम् / इह ह्येकानुप्रविष्टयोरलंकारयोर्निश्चितत्वेन निबन्धनम् / एकवाचकानुप्रविष्टत्वेन चालंकारयोः संसृष्टत्वेन चारुतातिशयोपजन इति नैवैकहेतुकत्वेन संकरोपमयोरिवेत्युक्त्या नास्याभावो वाच्यः / न हि यमकयोः संसृष्टत्वेनैवाव. भासोऽस्तीति यथोक्तमेव युक्तम् / अर्थश्लेषेणेति / नरकशब्दस्य दानवनिरयार्थकत्वात् / द्योतितरङ्गेति शब्दस्य सभङ्गत्वाच्छब्दश्लेषः / न चास्योदाहरणद्वयमेतद्युक्तम् / उपमाप्रतिभोत्पत्तिहेतुकस्य श्लेषस्यैवात्रालंकारत्वात् / उपमा हि श्लेषस्य हेतुत्वेनैव गता। तां विना तस्या अनुत्थानात् / अतश्च श्लेष एवात्र . 1. पाणिनितत्रविरुद्धोऽप्य प्रयोगः कविसंप्रदायसिद्धः /