________________ अलंकारसर्वस्वम् / शंकरेऽपि तस्योपचरितस्य संभवात् / यथा वा. 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि / संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि // ' अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम् / बाधकं यथा. 'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटंकृतौ / विनिद्रजृम्भितहरिविन्ध्योदधिरजायत / ' अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरिति साधारणं विशेषणं बाधकं प्रमाणम् / 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति वचनादुपमासमासे प्रतिकूलत्वात् / अतश्च पारिशेध्यापकपरिग्रहः। न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया। नं ह्यौपम्येन कदाचिदर्थसिद्धिः / न ह्यौपम्येलंकारेणोपक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञेषा / नापि धर्मसूत्रकारवचनम् / नाप्येष न्यायः / उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्योचितत्वात् / विपर्ययस्तु दुष्ट एव / , यथा-'येनेन्दुर्दहनं विषं मल साधकत्वानुपपत्तेः / तथात्वे ह्यत्रापि संदेहसंकरः स्यादिति भावः / यथा वेति। पूर्वत्र संकरेऽप्युपचरितस्यामृतमयत्वस्य संभवात्संदेहभ्रमः कस्यचित्स्यादित्यस्योदाहरणस्य पुनरुपादानम् / साधारणमिति / सामान्यप्रयोगे हि विन्ध्य उदधिरेवेत्यसमास एव स्यात् / यथा-पुरुषोऽयं व्याघ्र इव शूर इति / अतश्चेति / उपमाया बाधकप्रमाणसंभवादप्रवृत्तेः / पारिशेष्यादिति / न पुनः साधकप्रमाणसंभवादित्यर्थः / उचितत्वादिति / रूपकनिर्वाहेण साम्यस्याधिक्येन प्रवृत्तिः। विपर्यय इति / रूपकोपक्रमेणोपमानिर्वाहो दुष्ट इति साम्यलाघवेन प्रतीतेः / 'खेच्छाचारिणि यत्पुरा प्रियसखीवाचस्त्वया नादृता यत्कल्याणपराङ्मुखि प्रियतमः पादानतो नेक्षितः / तस्येदं हरिणाक्षि दुर्नयतरोरद्यापि