________________ 248 काव्यमाला। क्षीरनीरन्यायेन तु संकरः। मिश्रत्व इत्येव / अनुत्कटभेदत्वमुत्कटभेदत्वं च संकरः / तच्च मिश्रत्वमङ्गाङ्गिभावेन संशयेन, एकवाचकानुप्रवेशेन च त्रिधाभवसंकरं त्रिभेदमुत्थापयति / क्रमेण यथा 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः / - कुङमलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी // ' . अत्राङ्गुलीभिरिवेत्युपमा। सैव सरोजलोचनमित्यस्या उपमायाःप्रसाधिका / रजनीमुखमिति श्लेषमूलातिशयोक्तिः / प्रारम्भवदनाख्ययोर्मुख्ययोरभेदातिशयात् / अत एव तयोरङ्गाङ्गिभावः / एवं च वाक्योक्तसमासोक्तिः / उपमाश्लेषानुगृहीता चातिशयोक्तिस्त्प्रेक्षया 'चुम्बतीव' इति प्रकाशिताया अनुग्राहिका / तबलेन तस्याः समुस्थानात् / सा च समुत्थापिता समुत्थापकानां चमत्कारितानिबन्धनमित्यस्त्यङ्गाङ्गिभावः / यथा वा 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवखान् / मन्येऽस्तशैलात्पतितोऽतं एव विवेश शुध्यै वडवामिमध्यम् // ' तदेवाह-क्षीरेत्यादि / तदिति / यथोक्तरूपम् / त्रिभेदमिति / अङ्गाङ्गिभावादिना / प्रसाधिकेति / आनुगुण्यकारित्वेनाङ्गमित्यर्थः / श्लेषमूलेति / श्लेषहेतुकेत्यर्थः / अत्र च यथाङ्गाङ्गितया संकरस्तथा पूर्वमेवोक्तम् / अत एवोपमाद्वयापेक्षयैव तयोरङ्गाङ्गिभाव इत्युपसंहारः / श्लेषानुगृहीतेति / श्लेषमन्तरेणास्या अनुत्थानात् / तबलेनेति / तेषामुपमादीनां बलेनोपकारकत्वेनेत्यर्थः / समुत्थानादिति / उपकार्यत्वेन / उदाहरणान्तरोपादानं दावाप्ति(?)प्रदर्शनप