________________ अलंकारसर्वस्वम् / अत्रोपमोत्प्रेक्षयोर्विजातीययोः संसृष्टिः / उभयसंसृष्टिर्यथा 'आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य / पादाम्बुजं भवतु में विजयाय मञ्ज मञ्जीरशिञ्जितमनोहरमम्बिकायाः // ' अत्रोपमानुप्रासयोः संसृष्टिः / पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम् / स हि रूपके प्रतिकूलः पारिशेप्यादुपमा प्रसाधयति / तदेवं संसृष्टिस्त्रिधा निर्णीता / अधुना क्षीरनीरन्यायेन संकर उच्यते योगपद्यमन्यस्यापि तत्करत्वं च समुच्चय इत्युक्त्या भवन्मतेऽप्यलंकारयोगपद्यस्य तल्लक्षणत्वाभावात् / तथात्वाभ्युपगमे चायं नाम्नि विवादः / एवं हि संसृष्ट्या किमपराद्धम् / 'अत्र चोद्यं करिष्यामि' इत्याशयेन सजातीययोरुपमयोः संसृष्टिरित्यशुद्धं पठित्वा यदन्यैरुक्तं तदुपेक्ष्यमेव / अत्र हि विजातीययोरुपमोत्प्रेक्षयोः संसप्टिरिति सर्वत्रैव सुस्पष्टः पाठः / उत्प्रेक्षयोरिति / प्रथमार्धगतयोः / यद्यपि चानयोर्द्वितीयार्धगतयाप्युपमया संसर्गे संसृष्टिरेव, तथापि विजातीययोरुपमोत्प्रे क्षयोरुदाहृतत्वात्सजातीयाभिप्रायेणैवमुक्तम् / नाप्यत्रोत्प्रेक्षाद्वयमुपमाहेतुभूतमिति वाच्यम् / त्रयाणामप्यलंकाराणां वाक्यार्थीभूतं तमोबाहुल्यं प्रत्यङ्गत्वात् / उभयसंसृष्टिरिति / अनुप्रासोपमयोः शब्दार्थालंकारत्वात् / व्यवस्थापकमिति / मजीरशिजितयोगस्य पादगतत्वेनौचित्यात् / प्रतिकूल इति / अम्बुजस्य मजीरशिजितायोगात् / पारिशेष्यादिति / उपमारूपकाभ्यामन्यस्थाप्राप्तेः / एतदेवोपसंहरति-तदेवमित्यादि / त्रिधेति / यद्यपि सजाती. यविजातीयत्वेनान्यदप्यस्याः संभवति भेदद्वयम् , तथापि तदुद्दिष्टस्यैवान्तर्भवतीति यथोक्त एवायमुपसंहारः // इदानीं संकरमवतारयति-अधुनेत्यादि / 1. 'ते' क.