________________ अलंकारसर्वस्वम् / अधुनैषां सर्वेषामलंकाराणां संश्लेषसमुत्थापितमलंकारद्वयमुच्यते / तत्र. संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः / संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कटत्वेनावस्थानम् / तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः। इतरत्र तु क्षीरनीरसादृश्यम् / क्रमेणैतदुच्यते एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः। उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात् , तदा ते किं पृथक्त्वेन पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यतेतत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते, तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपलभ्यते / तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्य 'परिचुम्बनीयचलकाकपक्षकं तनयं कथं वितरतु क्षितेः पतिः / अभिवन्दनीयतमपादपङ्कजं सहसा प्रतीपयतु वा कथं मुनिम् // ' अत्र सुतमुनिविषययो रत्याख्यभावयोः संधिः / 'त्याज्यो नैष शिशुः सुतो रघुकुले याति प्रतीपो गुरुस्ताम्यन्त्यस्य सहोदरा विजयते क्षत्रस्य शस्त्रग्रहः / यात्यस्मिन्नवसादमेति हृदयं स्वार्थः परार्थेन मे व्यामुह्यन्त्यमुना विना प्रकृतयो मान्यो मुनिः प्रीयताम् // ' अत्र पुत्रादिविषयाणां रतीनां पूर्वपूर्वोपमर्दैनोपनिबद्धानां शबलत्वम् / अत्र च रते रामचरितं प्रत्यङ्गत्वमित्यलंकारत्वम् // अलंकारान्तरलक्षणं कर्तुं चोपक्रमते-अधुनेत्यादि / अधुनेति प्राप्तावसरम् / एषामिति / पूर्वोद्दिष्टानाम् / तत्रेति / अलंकारद्वये / तस्यैवेति / भेदस्य / स्फुटत्वमस्फुटत्वं च सुस्पष्टमेव / अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्चेत्युक्तम् / एषामित्यादि / एतदेवोपपादयितुमुपक्रमते-उक्तेत्यादिना / तदेतत्पक्षद्वयमध्यादृष्टान्तोपदर्शनद्वारेणालंकारान्तरत्वमेव सिद्धान्तयितुमाह-तत्रेत्यादिना / संघटनाकृतमिति / एकत्रैव द्वयोर्बहूनां वालंकाराणां युगपद्विनिवेशनं संघटना, तया कृतम् / तदुत्थापितमित्यर्थः / चारुत्वान्तरमिति / एकैकालंकारनिबन्धनात्प्रकृतत्वाचारुत्वा 16 अ० स०