________________ 340 'काव्यमाला / एकस्मिन्छयने विपक्षरमणीनामग्रहे मुग्धया ___ सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि / . आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः // ' अत्रौत्सुक्यस्योदयः / भावसंधिर्यथा'वामेन नारीनयनासुधारां कृपाणधारामथ दक्षिणेन / उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव / / ' अत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः / भावशबलता यथा'काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् / किं वक्ष्यन्त्यपकल्मषाः कृतधियः खमेऽपि सा दुर्लभा चेतः खास्थ्यमुपेहि कः खलु युवा धन्योऽधरं पास्यति // " - अत्र वितर्कोत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबलता / तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः / तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः / प्रमोदं वो देव्याः कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः // ' अत्र भगवद्विषयाया रतेरङ्गभूतयोरावेगधैर्ययोः संधिः / भावशबलता यथा-'पश्येत्कश्चिन्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युकमः क्वासि यासि। इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तः कन्या कंचित्फलकिसलयान्यादधानांभिधत्ते॥' अत्र राजविषयाया रतेः शङ्कासूयाधुतिस्मृत्योत्सुक्यदैन्यौत्सुक्यानां पूर्वपूर्वापमर्दैनोपनिबद्धानामङ्गत्वम् / देवताविषयरत्याल्मभावा. पेक्षया पुनरुदाहरणत्रयं यथा-'त्रिशङ्कोः परिपूर्णानां पुण्यानामस्तलक्षणम् / यदकस्मादुदेत्याशु विश्वामित्रं प्रति स्पृहा // ' अत्र विश्वामित्रविषयाया रतेरुदयः। 1. 'दिश्यात्' ख.