________________ काव्यमाला। भावान्तरस्य तव चण्डि गतोऽपि रोषो नोगाढवासनतया प्रसरं ददाति // . अत्र कोपस्य प्रशमः / एवमन्यत्राप्युदाहार्यम् / भावोदयो भावसंधिर्भावशबलता च पृथगलंकारः। यमलंकारः, अन्यथा त्वन्येऽलंकारा इति / एवमिति / यथैतदुदाहृतमित्यर्थः / अन्यत्रेति / ध्वनिवादिमते एषामङ्गत्व इत्यर्थः / तत्र प्रेयोऽलंकारः 'कचकुच-' इत्यादिना व्यभिचारिभावापेक्षयोदाहृतः / देवताविषयरत्यात्मभावोपनिबन्धे पुनर्यथा-'कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः / नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् // ' अत्र भवद्विषयाया रतेमरणविषया रतिरामिति प्रेयोऽलंकारः। ऊर्जखी यथा-'वन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितक्षुम्बन्ति ते सैनिकाः। अस्माकं सुकृतैर्दृशां निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे // ' अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौ रसाभासभावाभासावजम् / व्यभिचारिभावापेक्षया पुनरयं यथा-'द्विषां तवारण्यनिवासमीयुषां नितम्बिनीनां निकुरम्बकं नृप / मुहुर्मुहुस्यश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः // ' अत्र शबराणां परदारविषयमौत्सुक्यमनौचित्येन प्रवृत्तमिति भावाभासो राजविषयां रतिं प्रत्यङ्गम् / समाहितं यथा-'अविरलकरवालकम्पनैर्भुकुटीतर्जनगर्जनैर्मुहुः / ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् // ' अत्र राजविषयाया रतेरभूतस्य शत्रुविषयस्य मदस्य प्रशमः। देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा-'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः / आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः // ' अत्र राजविषयाया रतेरङ्गभूतस्य भूविषयस्य रत्याख्यभावस्य प्रशाम्यत्वम् / अत एव च समाहितं यदन्यैने लक्षितं तदत्यन्तमेवायुक्तम् / तन्मतेऽपि प्रेयोऽलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्तत्वात् / व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयःप्रभृतीनामलकारत्वं निरस्तम् / यदुक्तम्-'तस्माद्यभिचारापेक्षया प्रेय ऊर्जखिसमाहितभावोदयसंधिशबलत्वानि