________________ 236 * काव्यमाला। एतन्मतद्वयेऽप्युदाहरणम् / वाक्यार्थीभूतोऽत्र करुणो रसः / अङ्गभूतस्तु विप्रलम्भशृङ्गारः / एवं रसान्तरेष्वप्युदाहार्यम् / प्रेयोऽलंकारादौ विशेषमनपेक्ष्योदाहियते / प्रेयोलंकारो यथा याङ्गतामुपगच्छतामेषामलंकारत्वमुपकार्योपस्कारकत्वनिबन्धनतयालंकार्यालंकरणभावस्योक्तत्वात्। रसादेः पुनः खरूपनिवृत्तये निर्वेदादयोऽङ्गतामुपयान्तीति तत्रैषां रसोपसर्जनीभूतत्वात्तव्यञ्जनमात्रमेव फलम् / अत एव तत्रैव पूर्वोक्तनीत्या न ध्वनित्वम् , नाप्यलंकारत्वम्। रसव्यक्तिव्यतिरेकिप्रयोजनान्तरनिष्पादनत्वायोगात् / एवं निर्वेदादीनां रसव्यक्तौ सहकारित्वम् , अनित्वे ध्वनित्वम् , अङ्गत्वे चालंकारत्वमिति विषयविभागः / तस्मात् 'निर्वेदादीनां सर्वदैवाङ्गभावात्प्रेयोऽलंकारस्तरपेक्षो न वाच्यः / तस्मादेतेषां व्यङ्ग्यतायां ध्वनित्वं न प्राधान्यं क्वापि यस्माद्भजन्ते // एतेन भावप्रशमादयोऽपि व्यङ्ग्याः सदैव ध्वनितां प्रयान्ति / ध्वनित्वमिष्टं यदि तर्हि तेषु न लक्षणीयस्तु समाहितादिः // ' इत्यादि यदन्यैरुक्तं तदुपेश्यम् // एतन्मतद्वय इति / ध्वन्यभाववादिनां ध्वनिभाववादिनां च / तत्र ध्वन्यभाववादिमते करुणापेक्षया रसवदलंकारः / शृङ्गारापेक्षया तूदात्तम् / मता. न्तरेण तु करुणाभिप्रायेण रसध्वनिः / शृङ्गारापेक्षया त्वयमलंकारः / अत्र यद्यपि राजविषयाया रतेरङ्गित्वात्करुणोऽपि तदङ्गमेव, तथापि तस्य शृङ्गारापे. क्षयाङ्गित्वमाश्रित्यैतदुक्तम् / करुणश्च शृङ्गारोपस्कृतः प्रतीयत इति तस्यालंकारत्वम् / एवमिति / यथा मतद्वयमपि संगच्छत इत्यर्थः / तत्तु यथा-'का त्वं रक्तपटावगुण्ठितमुखी मुग्धे तवाहं सखी किं शून्यौकसि केवला निवससि त्वामागतान्वेषितुम् / एतद्वमुदश्चयेति कथयन्यालोक्य कूर्च ततः पत्युः स्मेरमुखाम्बुजस्य तरुणी जाता विलक्षस्मिता // ' अत्र वाक्यार्थीभूतः शृङ्गारः, अङ्कभूतस्तु हासः / एवमिति सामान्येनाप्युदाहरणव्याप्तिपरं व्याख्येयम् / यथा"पार्वत्या रचितां कपालिवृषभारूढं विलासाङ्गदग्रन्थिक्लान्तमहाहिलोचनलसज्ज्वालं पिनाकाङ्कितम् / कन्दर्पितशासनां कविवलत्कंकालमर्धेन्दुमद्भस्माकं च. पुनातु वो नवरसान्पुष्णन्मुरारेर्धनुः // ' अत्र भगवद्विषयाया रतेनैव रसा अङ्गम् / विशेषमिति / अङ्गाङ्गित्वेन / तेन ध्वन्यभाववादिमतेनाङ्गाङ्गित्वमेवैषामाश्रित्यो 1. 'प्रोद्भूत' क. 2. 'इत्युक्तः' क.