________________ 234 काव्यमाला। 'किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः / ... खप्नान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः / / रसादेरेव तदलंकार्यत्वम् / किं पुनस्तस्य शब्दमुखेनोपस्कारकाः शब्दालंकाराः, अर्थमुखेन त्वर्थालंकाराः। तत्तदवयवगतैरपि हि कटकादिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मना तयालक्रियते। तथा ह्यचेतनं शवशरीरादिकं कटकाद्युपेतमपि न भाति, अलंकार्यस्याभावात् / अतश्च देहद्वारेण सर्वत्रात्मैवालंकार्यः / एवमस्यापि शब्दार्थशरीरत्वात्तन्मुखेनैवालंकार्यत्वम् / तेन रसभावादितात्पर्यमाश्रित्य विनिवेशनम् / 'अलंकृतीनां सर्वासामलंकारत्वसाधनम्' इति दृशा रसाद्याश्रयेणैवालंकाराणां विनिवेशनं जीवितम् / अतश्चैहापि प्रकृतस्य वाक्यार्थीभूतत्वेन प्रधानस्य रसादेरुपस्कार्यस्याङ्गभावेन रसादेरलंकारत्वं युक्तम् / यदाहुः–'प्रधानतां यत्र रसादयो गता रसो रसादिध्वनिगोचरो भवेत् / भवन्ति ते यत्र रसादिपोषका रसाचलंकारदशा हि सा पृथक् // ' इति ननु निर्वेदादीनां भावानां गर्भदासवत्कदाचिदपि खप्राधान्याभावात्सर्वदा रसाद्यङ्गत्व एव ध्वनिभेदत्वमिति प्रधानेतरकक्षाद्वयाभावादेतेषां भावस्थित्युदयसंधिशबलताप्रशमात्मतया कथमलंकारत्वं वाच्यम् / तथात्वे ह्यभिधीयमाने ध्वनिभेदत्वमेषां न स्यात् / असदेतत् / इह हि निर्वेदादीनां त्रयी गतिः / तत्र 'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति नीत्या विभावानुभावस्पर्धयैषां रसव्यञ्जकत्वमेका गतिः / तत्र च रसस्यैव प्राधान्यान्निरतिशयप्रीतिकारित्वेन फलवत्त्वात् 'फलवत्संधिनावफलं तदङ्गम्' इति नीत्या रसव्यञ्जकत्वमात्रेणैव कृतार्थत्वान्नास्त्येषां रसव्यक्तिव्यतिरेकि किंचित्प्रयोजनान्तरम् / 'नायं कञ्चुलिकाविमोक्षसमयः स्पृष्टों न काञ्चीगुणः प्रक्रान्ता न मया विपर्ययरतारम्भाय वा प्रार्थना / न त्वत्कर्तृकमर्थयामि निबिडं दोःकन्दलीबन्धनं तन्निष्कारणमेव बाललवलीवल्लीव किं वेपसे॥' अत्रालम्बनविभावो लता, वेपनादिरनुभावः, वितर्कश्च व्यभिचारिभावः / एषां चात्र समस्पर्धितया रसव्यञ्जकत्वमात्रमेव प्रयोजनम् / व्यक्तश्च रसः सचेतसां 1. 'तथा तत्वे ह्यभिधीयमाने' ख. 2. 'अत्रालम्बनविभाव उषावेपनादिरनुभावः'क.