________________ अलंकारसर्वस्वम् / तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयो द्रष्टव्यः / एषामुपनिबन्धक्रमेण रसवदादयोलंकाराः / रसो विद्यते यत्र निबन्धने व्यापारात्मनि तद्रसवत् / प्रियतरं प्रेयो निबन्धनमेव द्रष्टव्यम् / एवमूों बलं विद्यते यत्र, तदपि निबन्धनमेव / अनौचित्यप्रवृत्तत्वादत्र बलयोगः / समाहितं परिहारः। स च प्रकृतत्वादुक्तभेदविषयः प्रशमापरपर्यायः / तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकाराः, तत्रागभूतरसादिविषये द्वितीय उदात्तालंकारः / यन्मते त्वङ्गभूते रसादिविषये रसवदाधलंकाराः अन्यस्य रसादिध्वनिना व्याप्तत्वात्तत्रोदात्तालंकारस्य विषयो नावशिष्यते, तद्विषयस्य रसवदादिना व्याप्तत्वात् / तत्र रसवत उदाहरणम् कथं प्रशाम्यदवस्था संगच्छत इत्याशङ्कयाह-तत्रापीत्यादि। परिशिष्टेति / भावतदाभासतत्प्रशमविषय एवेत्यर्थः / एषामिति / रसभावतदाभासतत्प्रशमानाम् / वलयोग इति / अनुचितेन बलात्कारेणैव प्रवृत्तिः / प्रकृतत्वा. दिति / तेनात्र वस्त्वन्तरं प्रकृतमिति भावः / ननु च परविश्रान्तिरूपस्य काव्यात्मनोऽलंकार्यस्य रसस्य कथमलंकारत्वं संगच्छत इत्याशङ्याह-तत्रेत्यादि / यस्मिन्दर्शन इति / ध्वन्यभाववादिनां मत इत्यर्थः / द्वितीय इति / ऐश्वर्यलक्षणात् / अन्यस्येति / यत्र वाक्यार्थीभूतो रसः / एवं ध्वन्यभाववादिमतं विषयद्वयस्य दृष्टान्तीकृत्य रसरसवलंकारयोरनेन विषयविभाग कृतः / अङ्गभूतस्य रसादेश्चालंकारत्वं युक्तम् / तथा च यावतोपमादीनां सर्वालंकाराणां प्रकृतवस्तूपरजकत्वमलंकारत्वे निबन्धनम् / अङ्गभूतेनापि रसेन तत्किअत एव / प्रकृतस्य रसादेस्तदुपस्कृतत्वेन भावात् / अतश्चोपमादीनामलंकारत्वे यादृश्येव वार्ता तादृश्येव रसादीनां यद्यपि चोपमादयोऽर्थालंकाराः, तथापि तस्य वाच्यार्थस्य विभावादिरूपतापर्यवसानाद्रसपर्यवसायित्वमेवेति काव्यात्मनो व्यङ्ग्यस्य d 1. 'एषामुपनिबन्धे क्रमेण ख,