________________ अलंकारसर्वस्वम् / 2.13 नध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् / न चेयमपद्भुतिः / किंचिन्निवध्य कस्यचिदप्रतिष्ठापनात् / यथा-- 'मलयजरजसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः / शशभृति विततधाग्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः // ' अत्र मलयजरजसविलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यभेदप्रतीतिर्दर्शिता। स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः / यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणं स तद्गुणः / तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा / न चेदं मीलितम् / तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते / इह त्वनपद्भुतखरूपमेव प्रकृतं / वस्तु वस्त्वन्तरगुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेदः। न चेयमित्यादि / 'अविभाव्यतां गताः' इत्यादुक्तेः // स्वगुणेत्यादि / परिमितेति / स्वीक्रियमाणस्य गुणस्याभावात् / तत्संभवादेव चान्यस्य प्रकृष्टगुणत्वम् / समीपवतीत्यनेन गुणग्रहणे योग्यत्वमुक्तम् / अस्मिन्निति / परिमितगुणे प्रकृते / अतश्च नैतत्संज्ञामात्रम् / ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलितमेवायं किं न भवतीत्याशङ्कयाह-न चेत्यादि / आच्छादितत्वेनेति / अपह्नुतिखरूपत्वेनेत्यर्थः / उपरक्ततयेति / विशिष्टत्वेमे 1. 'तद्गुणम्' स. 2. 'समीपवर्तिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्ख स्वीकरणम्' क. 3. 'गुणेऽपरक्त' ख.