________________ अलंकारसर्वस्वम् / 191 'निशासु भाखत्कलनू पुराणां यः संचरोऽभूदभिसारिकाणाम् / नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः / / ' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् / तत्रैव दैवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति / ' अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् / करश्चैकोऽनेकस्मिन्संहते क्रमवान् / अधरकन्दुकयोनिवृत्त्युपादानतया संहतत्वेन स्थितत्वात् / अभिसारिकाः शिवाश्चानेकखभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः / वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गः पत्नीत्यादिवर्गश्च वर्गवादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः / समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः / विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् / समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम् / तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः / एवं न्यूनेन हीनगुणेन त्यज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः / तदेषा त्रिप्रकारा परिवृत्तिः / क्रमप्रतिभाससंभवात्पर्यायानन्तरमस्या लक्षणम् / समपरिवृत्तियथा 'शिरः शार्व वर्गात्' इत्यादि / अत्र गङ्गाया उत्तरोत्तरस्थानासादनम् / संहते इति / अधरकन्दुकादेरनेकस्याश्रयत्वात् / क्रमवर्तिन्य इति / अभिसारिकाशिवानामतीतवर्तमानकालावच्छिन्नत्वात् / मुग्धत्वादीनां बहुत्वाद्वगेत्वम् / समन्यूनेत्यादि / एतदेव व्याचष्टे-विनिमय इत्यादिना / तादृशस्येति / तुल्यगुणस्येत्यर्थः / अतश्चात्र द्वयोरपि तुल्यगुणत्वात्त्यज्यमानादीयमानयोर्गम्यमानमौपम्यम् / एवं च तन्निमित्तस्य साधारणधर्मस्यापि त्रैविध्यम् / अधिकत्वं न्यूनत्वं चोत्कृष्टत्वानुत्कृष्टत्वयोगात् / अतश्चात्र शब्दोपात्तदधति (1) / क्वचित्सामर्थ्यलभ्यं तदिति नियमस्य त्रिरूपत्वात् / क्रमप्रतिभासेति / त्यागादानयोः . 1. 'पत्नीत्वादिवर्गश्च' ख. 2. 'समानाधिकन्यूनैः' ख. 3. 'अतः' इत्यारभ्य 'सामर्थ्यलभ्यम्' इत्यन्तं ख-पुस्तके नास्ति. 4. 'विनिमयस्य' ख.