________________ काव्यमाला। अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगाच्चापह्नवो गम्यते / एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयम् / 'अपर इव पाकशासनः' इत्यादावपरशब्दाप्रयोगे उपमैवेयम् / तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसंभवादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयम् / इवशब्दाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः / इवापरशब्दयोरप्रयोगे तु रूपकम् / तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूप्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते / स च वाच्य एव नियमेन भवति / अन्यथा के प्रति हेतुः स्यात् / यथा ण्डपाद(त)मुत्खण्डयन्नक्षतु चण्डिकायाः / यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुट्यतुलाकोटितुलामुपैति // ' अत्र सत्यपि तुला(कोटि)शब्दे चन्द्रलेखाया एव तुलाकोटिप्रतीतेरुत्प्रेक्षात्वम् / छद्मशब्दप्रयोगेन यथा-खेदोदबिन्दुसंदोहच्छमना तव राजते / स्मरेणावैम्यनर्घापि दत्ताधैव कुचस्थली // ' अस्याश्च तत्तच्छब्दप्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलंकारैः सह विभागं दर्शयितुमाह-अपर इत्यादि / तत्प्रयोग इत्यपरशब्दप्रयोगे / इवशब्दस्य संभावनाद्योतकस्याप्रयोगासिद्धत्वम् / अत एव चात्र विषयस्यानुपादानमेव / तदुपादाने हि दृढारोपं रूपकमिति समनन्तरमेवोक्तम् / अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यम् / तदित्यं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुखरूपफलानां यथासंभवं स्वरूप दर्शयति-तदेवमित्यादिना / स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते / अध्यवसायवशादिति भेदेऽप्यभेदाश्रयणात् / अभिन्न इत्यप्रकृतसंबन्धिना धर्मेण / स इति निमित्तत्वेनाश्रितो धर्मः / नियसेनेति / अवाच्यः पुनर्न कदाचिद्भवतीत्यर्थः / अन्यथेति वाच्यत्वे / कं प्रति हेतुरिति / तस्यैव फलरूपत्वात् / नहि यं प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैव वाच्यत्वं युक्तम् / साध्यमन्तरेण साधनस्य निर्विषयत्वापत्तेः / यदि चास्य निमित्तमात्रत्वमेव स्यात्तद्वाच्यत्वमवाच्यत्वं स्यात् / एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलं चेति सिद्धम् / एतदेव दर्शयति