________________ प्रतिष्ठाविधिः श्रुतदेव्यादि देवीनां कायोत्सर्गान् विधाय च / तत: पातालमित्यादि पठन् पुष्पाञ्जलिं क्षिपेत् // 6 // अयं अधिवासना-विधिः / / कृत्वा शान्तिबलिं प्रणम्य च जिनान् धूपं क्षिपेदादरादांप्तादस्तदनन्तरं चलजिने दर्भाद्यधः स्थापयेत् / अन्यस्यास्तु कुलालचक्रकमृदा युक्तं च रत्नासन स्थाप्य मन्त्रयुत स्थिरीकृतिकृते मन्त्रं न्यसेदादरात् // 7 // सौवीरमधुसर्पिी रूप्यकञ्चालकस्थितैः / नेत्रोन्मीलन कुर्यात् सूरिः स्वर्णशलाकया // 8 // घृतपूरितकञ्चोलकदधिभाण्डादर्शदर्शन चैव / सौभाग्यमन्त्रपवन मुद्रासौभाग्यपदपूर्वा // 9 // कपूरचन्दनसमालभन प्रतिष्ठा / मन्त्राभिमन्त्रिंतमथापि च पुष्परोप: / वासान् क्षिपेत् तदनु धूपविधि विदध्यान् मन्त्र न्यसेत् पुनरिय खलु चक्रमुद्रा // 10 // धूपोद्ग्राहणबहुबर्बालचन्दनतिलका भवन्ति कर्तव्याः / दध्यक्षतावमिणने कार्य चतुरादिभिः स्त्रीभिः // 11 // कर्तव्या लवणावतारणविधिः पश्चात्तथाऽऽरत्रिक भूतेभ्यः प्रचुरो बलि: पुनरधो रत्नासनस्थापनम् / अस्मिंश्योपविशन्तु तीर्थपतयो जात प्रतिष्ठां पठन् / पुष्पाणामिह चाजलिं प्रतिक्षिपेदेवं पठंश्चादरात् // 12 // इदं पुष्पं गृह्णन्तु जिना इदं पुष्पं गृह्णन्तु जिना इति / श्रुतदेव्यादिदेवीनां कायोत्सर्गान् कुर्यात् / जह सिद्धाणं पइट्ठा तिलोयचूडामणिमि सिद्धिपप / ... आचंदसूरिय तह हेाउ इमा सुपइट्ट त्ति // . // अयं प्रतिष्ठाविधिः समर्थितः /