________________ . श्रीजैनशान-गुणसंग्रह 395 श्रीपार्श्वनाथंजिन अंजनशलाका-प्रतिष्ठामहोत्सव श्री गोलनगरे श्रीगोलनाम्नि नगरे, जयति जिनो नाभिराजकुलतिलकः / यो मङ्गलमयमूर्ति-वृषभ इति प्रोच्यते विबुधैः // 1 // चैत्ये नवे युगलभूमिवरे द्वितीय, ऽपूर्वोत्सवेन विधिना च प्रतिष्ठयमानः / नानाभिधानविदितोर्जितसत्प्रभावः, पार्थो ददातु भविनां हृदयेप्सितानि // 2 // आनन्दाद्वयपूर्णमङ्गलघटं मार्तण्डमुख्यग्रहैः, संसेव्यं दिगधीशदेवनिकरैराराधितांहिद्वयम् / संघोल्लाससमुद्रशीतकिरणं सत्यप्रतिष्ठास्पदं, लोकालोकविदं सुशान्तिनिलयं वन्दे जिनाधीश्वरम् // 3 // गच्छे श्रीविजयादिसिद्धिसुगुरोः प्राप्तः प्रतिष्ठां परां, सच्चारित्रिसमाजलब्धसुयशा वैदुष्यमुख्यैर्गुणैः / कल्याणो विजयान्तशब्दविदितः सौभाग्यनामेत्यमू, भूयास्तां मुनिसत्तमौ सकुशलौ भव्यात्मचेतोमुदे // 4 //