________________ जैनगीता। तन्वङ्गनाऽऽलयमुखार्थमनन्तकायान् , द्राग हिंसतां मनसि यस्य न कापि शङ्का / / सैषां व्यथा यतनया ह्यपरागिनां स्या मिथ्यात्वमोहजनितं कुमतोत्थमंहः // 43 // नरेन्द्रदेवेन्द्रसमूहसत्कृता-मर्चा जिना मधिकृत्य सिद्धाम् / विलोप्य संसारसमुद्रगानां, करोति भक्तिं स कथं विवेकी ? // 44 // जिने वर्तमाने चिदानन्दपूर्ण, कृता देशनाभूमिकार्य सुरेशैः / जनौ निष्कमे मोक्षसिद्धौ च या तां, सुभक्तिं विलुप्याघमारै भ्रमी च ( भवे) // 45 // त्रिधा पश्चधाऽर्चा पुनश्चाष्टभेदा, दशान्वितैः सप्तभिश्चाहतां या। श्रुतोक्तिप्रपञ्चैः प्रवोढा विलोप्य, गतिं तां च गन्ता दुरावापधर्माम्।।४१ त्रिसन्ध्यं जिनानां विधायार्चनं यः, स्तवैरुत्तमैः संस्तवं चापि कुर्यात् सुसौख्यानि देवस्य चिन्तातिगानि, स लब्ध्वा शिवं शीघ्रमाप्नोत्यवश्यम् // 47 // कृतं सत्फलं तेन जन्म स्वकीयं, नरेणाहतां भक्तिकृत्येन वंशे / समारोपितः कल्पवृक्षोऽनुजानां, सदा स्वर्गमोक्षकफलप्रदायी // 48 // यद्यपि पूजा फलविधये स्यात् , पौद्गलजाले धनकनकाद्यैः / सत्तृणमात्रं शिवफलसिद्धे-स्तत्स्याद्विबुधजनस्तन्मात्रः (द्वाञ्छः)॥४९॥ जैनोऽसावाहतानां प्रवरगुणगणं क्षेत्रमेतच्छ्रयेत, मूलं यत्सद्गुरूणां प्रवरगुणभृतां धर्मकार्यस्य वर्यम् /