________________ जैनीता। पश्येयुः स्वजनं, तंतः स्वयमपि तत्रोद्यता स्युररं, , तच्चैत्यं गृहदेशभाग उदितं कुर्वन् कुटुम्ब धरेत् / ( निलये दधत् स्वजनगं धर्मप्रचारं ददौ) // 37 // जनानां सार्थोऽयं निजनगरगानां समभुवां, स्थितिं वृद्धिं रक्षां यदि च मनुते कर्तुमसमाम् / तदैकस्मिन् स्थाने मिलति जनतोद्धृतिपरः, तथा जैनः सार्थोऽव्ययकृतमतिश्चैत्यमयति / ( तदर्थं चैत्यं किं न भवति भविनां सुकृतिगतम् ) // 38 // अधिष्ठात्रा शून्यं भवति भवनं नैव रतिदं, सदा सेव्यो नाहज्जिनपनिचितेरस्ति मनुजः / ततः स्थाप्यो भव्यैः स्वजनवृषकृतेऽस्मिन् जिनपति स्ततश्चाचा नित्यं तनुत उपमायाः पदमिताम् // 39 // आकल्पोऽद्यतनः सुखायति नृणां यद्वन्न जीर्णस्तथा, तद्वच्चैत्यमनूतनं तत इहोद्धारः प्रतिष्ठापदम् / श्राद्धश्चेतसि तद्विचिन्त्य नियतं चैत्यं नवीनोपमं, धाम्नि ग्रामतले च शास्तविधिना कर्तुं भवेदुद्यतः // 4 // नैवोपकारः यजने जिनानां, यतो हि ते रागरुषादिशून्याः / फर्तुस्तथाप्येष यथा प्रयुक्ते, ज्वरादिरोगप्रशमाय रत्ने // 41 // वधोऽङ्गिनां पापभरैकहेतु -न तं विना नार्चनमर्हदादेः / एकाक्षजीवोद्धनने घृणा चेत् , स्थितिगृहे नेतरथा विमोहः // 42 //