________________ 90 जैनीता। श्राद्धस्तस्माद्विमलमतिभिः प्रोज्झ्य संसारजालं, तत्तत्तीर्थान्यमलविधिना सेवनीयानि शुद्धथै / .. सम्यक्त्वस्येतरगुणसहितस्याप्तिशुद्धी दधानः युक्तः सर्वैः स्वजननिचयैर्वृद्धिकृच्छासनस्य // 32 // निर्दिष्टा श्रीप्रवचनफ्टुभिस्तीर्थसेवैव वर्या _____ऽऽकल्पः सदृग्धरणनिपुणमतेस्तत्र यत्कामितानि / स्थेमोद्भावौ प्रवचनपटुता भक्तिरार्हन्त्ययुक्ते, स्युस्तत्कामं सुकृतसमुदयी सेवते तीर्थधाम // 33 // उदयमेनमुदीक्ष्य मनीषिभि-नवकृतेः सुधियां फलमीरितम् / बहुगुणं जिनचैत्यसमुद्धृतौ, प्रयतते यदि तत्र वृषोद्धरः // 34 // तीर्थानि तत्र विविधानि पुरातानि, स्युर्दीर्घकालललितानि समुद्धृतानि / हेतुः फलस्य भवतीह समुद्धृतिः सा, . सम्यग् दृशो य इह, प्रेत्य सुखाप्तियत्नाः (प्रध्वरमार्गलम्भाः ) // 35 // यथैवाऽर्हतां भक्तिरत्यन्तभद्रा, भविष्यद्जनतानां समुद्धारिका यत् / तथैवाऽऽत्मधाम्न्यर्घयुक्ता यतः सा, सदा पुत्रपौत्रादिहितोद्भुरा स्यात् // 36 // बालानां सरणिर्विचारविमुखाऽन्यानुभितां तु क्रियां, कुर्युस्तद्यदि धर्मकर्मणि रतं विम्बार्चने तत्परम् /