SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ जैनगीता। कल्पातीतं फलं यद् भवति नरगणे तन्निदानं जिनार्चा, ध्याल्वेति शास्त्रवाचाऽनुगतमतिकृतिः साधयेच्छ्रीजिनार्चाम् // 50 // इति चतुर्विशोऽध्यायः / / पञ्चविंशोऽध्यायः / (चैत्याधिकारः) स स्याज्जैनत्वधारी जिनपतिचरणप्लावितं चैत्यमाढयं, ग्रामे वा पत्तने वा यदि भवति तदा वासमादातुमिच्छेत् / निष्काणां चेच्छतं सद्धरति निजवशं कारयेद्वासधाम्नि, चैत्यं नूत्नं यतः स्यादविरलगुणभृत्पुत्रपौत्रादिवंशः // 1 // जिनेश्वराणां महनेन भावो, यथा विदां श्राद्धवृषोद्वहानाम् / तथादिधर्मश्रयणान्वितानां, भावाय चैत्यं सुकृतोद्वहाय // 2 // वंशानुवंशागतसज्जनानां, गृहस्थिताहनिलयेक्षणेन / दिनं दिनं स्याज्जिनधर्मबुद्धे- वैव शुद्धक्षितिरोपिता या // 3 // निजाग्रजानां परिमाननीयः, स्मार्यश्च जाप्यश्च निषेवणीयः / को मङ्गलार्थं परिपूजनीयो, देवोऽभवत्तत्स्मरमिद्धचैत्यात् // 4 // जिनोपदेशं विनिशम्य दृब्धा, येनाऽऽगमास्तीर्थविबोधनाय / गणेशिता सोऽर्हदुदारचैत्य-ततिं पुरस्थां परिकीर्तयेद्धि // 5 // जगत्यस्मिन् सर्वं नगरवरनिगमग्रामसदृशं, जनानां भूपानां निवसनजनितगौण्यमहिम /
SR No.004387
Book TitleAgamoddharak Krutisanodh
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy