________________ जैनगीता। क्षणाद् दृष्टं नष्टं जनपदजननाशेन नियतं, तथापीक्षन्ते ज्ञाः पुरवरपरिगतैश्चत्यकृतिभिः // 6 // पुराणामुद्वसानां प्रकीर्णैर्युतानां, मतानां नृपाणां विनाशं गतानाम् / विबोधो बुधानां तदारम्भणैः स्यात् सुचैत्यानि दृष्ट्वा तथैवाप्तराजेः // // दृष्ट्वा मूर्ति वीतरागप्रभूणां, स्याद्वै बोधो दृष्टुराप्तस्य शुद्धः / दृष्टे चैत्ये चित्रकीर्णे तदीया, बोध्याऽवस्था प्राक्तनी चित्तचोक्षा // 8 // यथा साध्यसिद्धिविना साधनं नो, तथा साधुतां शुद्धधर्मोद्यमाङ्काम् विना वीतरागस्तदेतद्विधानं, सुचित्राङ्किते चारुचैत्ये समानम् // 9 // भाषा या लिपिसंश्रिता न नियता कालेन देशेन च, प्राप्ताऽनेकश उच्छिदं बुधमता चित्रं तु पाषाणवत् / प्रेक्षन्ते समकालगा बुधजडा गच्छन्ति, सत्यं पथं, तस्मादाचरितव्यमेतदमलैश्चित्रैर्युते चैत्यके (मन्दिरे) // 10 // घनरिक्थयुतैर्वरबुद्धिधन-जिनवाङ्मचविद्धशुचिश्रवणै घननित्यसदागममानधरैः , श्रमणादिसुसङ्घघनिष्ठमतैः / शुभसन्मतिधारकसन्धिजन-जनसार्थगताऽऽदृतिशुद्धरवैरमणीयतरं वरचित्रयुतं चिरचैत्यमुदार ( दीर्ण ) मतैः क्रियते // 11 // तदा सन्मान्यं तद्यदि च विधिना वृद्धरुचिरं, मनोज्ञं चैत्यं चेत् परित उदिताचारततिवृतम् / न चास्थाने सन्तो विहितविविधाचाररतयो, गतिं स्थानं शंसां विदधत उदा यत उमा // 12 //