________________ जैनगीता। अन्यानि पापानि समाचरन्तः , प्रवृत्तयोगास्तदुपाददानाः / गृहीतमर्थ मनसीहयित्वा, पुरश्च पश्चाच्च वृथाघचित्तः (चेताः)॥३४॥ रौद्रं ध्यानं लीनताभाग्धनेषु, धत्तेऽक्षाणां पुष्टयेऽर्थं प्ररक्षन् / मृत्वा याति तादृशः कुत्सितायां, तिर्यग्जातौ लोभरक्षापरायाम् // 35 // जीवो ह्येकः सकलभवगता एति तास्ता व्यथा नु सङ्गाल्लोके स्वजनरहितस्तासु तासु प्रदिक्षु / आत्तः सङ्गः स्वजनविधये नैव (ते) भोगकाले, दुःखं लात्वा (परवशगता) नैव कुर्वन्ति भागम् // 36 / / जैनोऽसौ यः सदा स्याद्गतधनकनके रक्तचेता मुनीशे, दानाहँ सङ्गतं सत्कुरुत उदितभा गेहकार्ये निरीहः / शस्तेऽसौ तोषमेतं कुमरपदगतं त्यक्तराज्याहमानं, सन्तुष्टः सर्वदाऽसौ जिनपदरमणो मोक्षकामो महात्मा // 37|| इति त्रयोविंशोऽध्यायः / / चतुर्वि शोऽध्यायः / ( जिनबिम्बाधिकारः ). नैनोऽसौ जिनराजिपादकमले भृङ्गोपमानश्चरेत् , धत्ते ध्यानमनारतं प्रभुपदोर्मोक्षाप्तये भक्तितः / लोकेऽसौ खलु दुर्लभो भविजनाम्भोजप्रबोधे रवि यत्सङ्गादपरेऽपि भव्यनिवहाः स्युर्धर्मसिद्धथै क्षमाः // 1 // प्रतिदिनं प्रग आदरतः पठे-च्छुचिमनास्त नुवाच्छुचितान्वितः। बदि परं मनसा शयने स्थितः, परविधिश्च परिष्कृततां गतः // 2 //