________________ 84 जैनीता। नेर्यापथो बन्ध उदस्य क्षीण-कषायितां सा च न दीर्घकाला / . विहाय सार्वश्यधरं ततोऽमी, सप्ताष्टबन्धा नियमाद्भवावलौ // 24 // मतं न निर्वासस उद्यमाढ्य, शिवाय योपक्रिययोपयोगि / सत्संयमे स्यादुपकारकं त-ल्लिङ्गाच्च धर्माच्च बहिर्भूतास्ततः // 25 // न भावलिङ्गं नियतं तदेषां, नाग्न्येऽभिनिवेशश्च मते ह्यमीषाम् / ततश्च कैवल्ययुतां शिवाप्ति, निषेधयन्तीह दिगम्बराः स्त्रियाम् // 26 // नार्या यतः स्युः शिवसाधनक्षमा, विहाय वासांसि तदीयधर्मे / न चाङ्गनानां गतचीवरत्वं, न तैर्जनेषु ,प्रसृतैक्षि योगिनी // 27 // सत्साधनानामुपकारकर्तृता-मुदस्यता तेन निराकृताः समम् / ईर्यादिका, येन न ता भवन्ति, विनोपकर्तृन् प्रयतात्मनामपि // 28 // गृह्यन्यलिङ्गेषु शिवाप्तिभावो, माधुकरी या च मुनीशचर्या / तथा जिनार्चा नयनादियुक्ति - न्यषेधयेत् सर्वमिदं विबुद्धिः // 29 ये लुम्पकाः कुर्वत ऊननाम्ना, तपो यथोक्तोपकृतीः प्रतीत्य / दयामुखास्ते वधमङ्गिनां यतो, जिनान् विहायास्त्यवमो न तासु!॥३०॥ अणुव्रतेऽस्याऽऽद्रियते स्वकेच्छा, मानाधिकस्य विरतिं ग्रहस्य / इच्छा यतः प्राप्तधनानुयाता, सदा न सेत्यस्य मतं व्रतत्वम् // 31 // आहेऽप्यमुष्याग्रत आचरेन्न, क्षेत्रादिभेदेषु परिग्रहेषु / अन्यान्ययोगक्रयणप्रकारान् , स्तुत्यः स एवाणुधरोऽपि सद्भिः॥३२॥ वदन्ति केचिजठरादिपूर्त - रावश्यकोऽर्थस्तत आदरार्थः / मिथ्या, यतः सन्ति जना अतृप्ताः, समृद्धिमत्स्वीश्वरनिर्जरेषु न . (न्तोऽमरनायकास्तथा ) // 33 //