________________ 23. जैनगीता। धर्मार्थपापप्रतिषेधकारणं, महाव्रतोच्चारतदहशिक्षणम् / सूत्रार्थदानं शिवमार्गवार्ता, परिग्रहित्वं नैकतमेष्वमीषु // 14 // स्थानेषु धर्मस्य ममत्वभावं, धरन्नपि स्यान्ममताप्रसङ्गी / परिग्रही यन्नहि धर्मधाम, प्रमादपोषाय जिनैः प्रगीतम् // 15 / / कुलीनता बुद्धिरनुत्तमा यदि, बलं च वाल्लभ्यकमग्न्यमाप्तम् / परामिभावाय यदि प्रयुङ्क्ते, तान्येव तस्य प्रभवन्त्यघाय // 16 // गृहीतिराऽऽदावनगारिणां या-ऽऽहारोपधेःस्वीयशिवाप्तिसिद्धथै / परिग्रहो नैष, यतो ग्रहो न, प्रयुक्त एकः परिणा सहोक्तः // 17 // पराणि पापप्रवणानि यानि, धामानि नो तान्युपसर्गवन्ति / ततोऽपवादीयपदं विरुद्धे. नाशोऽपि नैवात्र परेः परत्वे // 18 / / एवं जिनादेर्बहुमानवृत्त्या, स्मृत्वा च तेषामसमोपकारिताम् / आराधकोऽर्चादिकपूजनाद्य-मर्चामुखस्यादरभृद्विद्ध्यात् // 19 // न तत्र तस्याघपदं परत्र, वेद्यं न दोषश्च गुणोत्तमानाम् / देवेशचीर्णां प्रतिमाहदाँ, निषेधयन्नों किमघप्रधानः ? // 20 // श्राद्धस्य धर्मोऽस्थिरजन्तुरक्षा, सदा प्रवृत्तः क्षितिमुख्यनाशे / पूजाकृतौ योग्यपदानुसारा-दर्हद्गुणेष्वेव भवेन्निमग्नः // 21 // यथा त्रसानां हननान्निवृत्तो, मद्ये च मांसे च सदैव भीतः / यथा तथा नो भवतीह मैथुने-ऽधिकेऽपि मानुष्यवधाघलेपे // 22 // नाज्ञानभावो न च निर्दयत्वं, गुणैकरागः प्रभुपादयोः पुनः / सचेन्मुनीशादिनतिः शिवाय, तत् कर्मबन्धस्य यतः प्रशंसा // 23 //