________________ जैनगीता। प्रेत्य ग्रहास्ते न तु सार्द्धसंधाः, न गर्भगानां प्रचरन्ति सार्धम् / स्वस्यैव ते तन्वत आधिजातं, कदापि सम्पत्तिमतुल्यरूपाम् // 3 // अयं तु सर्वासु चरन् दशासु, किम्पाकवत् स्याच्च मुखे सुखाय / अनन्तदुःखार्पणतत्परोऽन्त्ये, परो न सर्वज्ञमृतेऽस्ति(स्य)वे (भे)त्ता // अनादिकालीनसमस्तजीव-राशिस्थ आध्येकपदं नराणाम् / एकादशं स्थानमितोऽपि साधुः, प्रत्येति तस्मादपि मूलमाद्यम् // 5 // अभव्यजीवाः परिपाल्य शुद्धं, चारित्रमग्यं सुभलेश्ययाऽऽध्यम् / पुनः पुनर्भ्रान्तिमनन्तकालां, सदा धरन्तीह परिग्रहेण // 6 // सदा ग्रहं विष्ट उदित्वरं न, नरः प्रयातीह सदा ग्रहं त्वमुम / / स्यादात्मतन्त्रोऽपि गतात्मतन्त्रो, वेत्त्यात्मतत्त्वं विदितात्मतत्त्वः / / लोकोत्तरेऽयं त्रिविधे सचित्ते-ऽचित्ते च मिश्रे द्रविणे प्रगीतः / भावे च तत्त्वं कथितं जिनेशैः , मूर्छालयोङ्गं द्रविणं किलास्य // 8 // अशोकवृक्षादिमहर्द्धिमत्त्वं, परःशतानां यतिनां प्रभुत्वे / अनन्यरूपा बहवोऽतिशेषाः, निस्सङ्गचक्रयेष तथाऽपि गीतः / / 9 अतः स्वकीयाननगारिणो न, हठात् क्रियां कारयतीह सूरिः / एते मदीया इति वक्ति नैष, परिग्रहप्राप्तिभयाकुलत्वात् // 10 आदेशदाने यतिनां तदीयां, याच्यामधिप्राप्य न चेत्स षिड्गः / आज्ञापयितव्यपदं न तेषां, परिग्रहान्तःकृतिता च नैवम् // 11 // साधवो विदधति प्रभून् प्रति, मार्गणं प्रतिक्रियं न तद्धठात् / यद् विदन्ति तेन भाविनी, व्यथां ततो मुनीशवाचया प्रवर्त्तनम् // 12 प्रविव्रजन् श्रीजिनराजपार्श्वे, यदात्मनाऽऽख्याति भविष्यदिच्छाम् / तदापि साहाऽत्र न विघ्नकार-स्त्वया विधेयस्तव सौख्यवृत्तिः॥१३॥