________________ जैनगोता। भवति नैव विधिं चरतां नृणां, श्रुतगताविधिजातमघं पुनः / / यदि च कष्टतमा तनुजास्थिति-नहि तदाऽविधिरास्पदमंहसाम् // 3 // सा मङ्गलं प्रविदधातु जिनालिरग्न्यं, स्वर्गापवर्गसुखदानपरा जनानाम् / या दुष्टकर्मकलिलाकलितः परस्ता द्यस्याः परा न शिवगा न च पूज्यपादा // 4|| गर्भावतारसमये जननी प्रसुप्ता, याऽदर्शयत् सकलजन्मगताङ्कधात्रीम् / चक्रयङ्कितादधिकदीप्तिधरां चतुर्भिः, स्वप्नालिमुद्धरवृषा दभिश्च युक्ताम् // 5 // जिनवरा जितरागमदाः सदा, भविजनान् सुकृतालिपरोद्यतान् / दुरितकर्मभरात् सुगमाध्वना, विदधतु प्रवरोद्यमशालिनः // 6 // अतिप्रभाते जनताहृदब्जे, माङ्गल्यसौख्यैकधनप्रकाशम् / / समग्रघस्रं गतविघ्नराजि, कर्तारमाप्तं सुखदं धरेद्वै // 7|| त्रिलोकनाथाँस्तत आप्तबुद्धया, हृदब्जकोशे धरति प्रगेऽयम् / परो न तेभ्यो जगदर्थकारी, स्वर्गापवर्गप्रद एव नास्ति // 8 // मुखं प्रगे पश्यति सज्जनः सदा, ससन्ततेरादृतनीतिरीतेः / असङ्ख्यकालं प्रभुता जिनस्य, विचिन्त्य वक्त्राब्जमुषस्य वेक्षे (पश्यामि मुखाब्जमस्य). // 9 // शास्त्रे यद्यपि सर्ववस्तुविषयं न्यासे चतुष्कं मतं, भावोऽर्थाकर उच्यतेऽर्हति परं पूज्याः समेऽमी यतः। .