________________ 80. जैनगीता / निवृत्तिरूपाणि महाव्रतानि, ततो मिथुनाद्विरतिय॑गादि ब्रह्मार्थकत्वे गुणताऽऽत्मतत्त्वे, न तत्प्रतिज्ञा न भवं च यावत् // 25 हिंसादिवच्चेदभघस्य धाम, लोके प्रतीतं मिथुनं ततोऽस्मात् / प्रसिद्धरूपा विरतिर्जनेषु, लोकोत्तरे चाध्वनि सुष्ठु गीता // 26 मानुष्यकं ब्रह्म समाचरन्तो, गवाश्वगं तत्तु विहेडयन्ति / तल्लोकवृत्तेर्विहितं न तत्त्वाद्, वधादसूनां विनिवृत्त्यभावात् // 27 ये ब्रह्मचर्यात् परिभ्रष्टिमाप्ताः , सद्ब्रह्मचर्यान् यतिनः पदेषु / स्वीयेषु भ्रष्टाः परिपातयन्ति, प्रेत्यापि तेषां न वृषाप्तिरी // 28 अमैथुनाः सन्ति दिवौक आद्याः ( सुधाशनाद्याः ), परं न तेषां वृषलाभ उक्तः / भवस्वभावाद्विरतिर्न तेषां, तस्या अभावे न च संवृतत्वम् // 29 कृतेरभावे यदि स्यात्तु संवरो, व्यङ्गेन्द्रियाणां सविशेषतः स्यात् / एकेन्द्रियाः सूक्ष्मतरा न कञ्चि-निघ्नन्ति ते नैव परैश्च हिंस्याः // 30 प्रतिक्षणं स्युः परिणामभेदाः, स्थास्नुव्रते स्यादुररीकृते तु / विना प्रतिज्ञा करणिर्न चोक्तं, प्रामाणिकत्वेन लिखेत्कदाचित् / / 31 // ननु व्रताज्जीववधाद्विरक्ते-गतार्थमेतत्कथमुच्यते वै / यतोऽङ्गिनां स्थावरजङ्गमानां, वधाद्विना नैव भवेत्तु मैथुनम् // 32 // सत्यं जिनानां पृथगेतदस्ति, न मध्यमानां जडताभृतां पुन राद्यन्ततीर्थे यतिनां विभिन्नम् . // 33 // गच्छत्सु घातं न ऋजुः प्रयोगः, कायेन वाचा मनसा च कश्चित् / न चात्र वीक्ष्यन्त उपद्रुताङ्गा-स्तेनेदमुक्तं पृथगेव विज्ञैः // 34 //