________________ जैनगीता। यद् दृष्ट्वा नृप आश्रितः मुनिसमं तं क्षामयित्वा भृशं, जाता चाऽमरसंसदस्य मुखरा गाने व्रतस्य स्थितेः // 15 // यद्यपि प्रतिव्रतं मुनीश्वरैस्तु भावनाः , पञ्च पञ्च कीर्तिताः स्थिरत्वसाधनाय ताः / दुराचरं मतं त्विदं जिनेशशासनाधिपै स्ततोऽधिका मता नवैव वृत्तयोऽत्र वाङ्मये // 16 // व्रतेषु शेषेषु विबाधनोत्थितौ, यथा मताः साधुपदैकभावनैः / प्रोच्याऽत्र तावत्य उदित्वरो नहि, वेदो यथा स्यान्न हि वृत्तयस्तथा।।१७।। नैकत्रवासो ललनाजनेन, नाऽस्याः पुरो वा कथयेत् कथां न / नासीत साधुस्तकयैक आसने, विलोकनीयानि न चेन्द्रियाणि // 18 // कुड्यान्तरस्थो न भवेत्तु तस्याः , स्मरेच्च नैवानरतिक्रियायाः / उन्मादकारीणि न चानुवीत, बह्वाशनो नैव भवेच्च साधुः // 19 // उदीरिते वेद इमा न किन्तु, प्रागेव रक्षाकरणे समर्थाः / ता वृत्तयो यत्प्रभवे कणानां, क्षेत्रस्य शिष्टा वृतिराप्तमुख्यैः // 20 // मुनीश्वराः पञ्चमहा ती सदा, शिवाप्तिकामा निरघां वहन्ति / तथाऽप्यनन्यं जगुराप्तपादाः, सद्ब्रह्मचर्यं वहनीयमग्यम् // 21 // स्थितो जिनेनोदितसाधुमार्गे, तपःप्रभावात् शमिताश्च घोराः / / तथापि योषेऽसुरवाप पातं, धर्तार एतस्य सुदुष्करक्रियाः // 22 // गुरोः कुले वास उदीयते ज्ञैः , सद्ब्रह्मचर्य मुनिमार्गलीनैः / साधोः समग्रा मुनिमार्गचर्या, क्षान्त्यादिधर्मे दशसङ्ख्यमाने // 23 // स उत्तरत्वेन मतं तु धर्मे, गुणोऽयमुक्तो मुनिमूलमार्ग / तथा च तत्त्वेन विरक्तताया, मूलस्य रक्षाकरणाय तत्तु // 24 //