________________ 78 जैनगीता। संसर्गतोऽत्र वनिताजनसम्भवात्तु, शेषाघसङ्गतिपदानि न दुर्लभानि / .. पापप्रचारणपदं प्रतिबुध्य तत्तत् , . . त्यागो जिनेश्वरमते प्रथमो मतोऽस्ति // 9 // मैथुनं भवति तत् त्रिधा त्रिधा मनोवचस्तनुभिराप्तसङ्गमे / यत्कृतं स्वयमपि च कारितं शस्तमेतदपरं त्रिधा पुनः // 10 // यद्यपि पुनरिदं त्रिधा भवेत् मानुषामरपशुप्रभेदतः / धर्गणाधिकारतः पुनर्द्विधा वैक्रियं परमुदारकायजम् // 11 // भेदा अष्टादशामी प्रवरवृजिनदास्तेन तावन्त आप्तै भैंदा अब्रह्मजाताः श्रुतततितनने स्पष्टमुक्ता मुनीनाम् / भेदास्तावन्त एव प्रवरमुनिवरैर्ब्रह्मचर्ये हि प्रोक्ता, आदेया धर्मधुर्यदि शिवगमनं प्रेप्सितं स्यान्निरागः // 12 // स्त्रीणां कृते जगति देशधरेषु पूर्व सङ्ख्यातिगा जनविनाशकरा महान्तः / यद्विग्रहास्तदवबुध्य नरः सुखार्थी, . कुर्यात् सदा विरमणं परदारसङ्गात् // 13 // विद्येश्वरोऽथ वचनातिगकीर्तिपात्रं, सानिध्यसम्पदधिको नियमादृतोऽपि / सैन्यं प्रचण्डबलवत् सततं दधानो, हा ! रावणः क्षयमितः परदारक्तेः // 14 // श्रेष्ठ्यासीद् दृढशीलमानसधरो राज्या कृतान् सोढवान् , उपसर्गान् विविधान् सुदर्शन इति प्रौढेन नाम्ना पुरा /