________________ जनगीता। 77 देवाः ‘स्वनायकयुताः प्रणमन्ति नित्यं, वैमानिका भवननाथसुवर्णसङ्घाः / ये दुष्करं व्रतमिदं शिवसाधनोत्का, नित्यं सुचेतस इह प्रविधारयन्ति // 3 // श्रीमज्जिनेन्द्रविततो दृढ एष पन्थाः, शुद्धागमेन यशसां पदमानीतश्च / विद्वद्वरैर्द्वयमयोऽत्र पुनश्चतुर्थेऽन्योऽध्वा मतोऽयमपवादपथस्वरूपः // 4 // मोक्षाध्वयायिजनताविदितं समस्तजैनागमैः सततवारितमेतदंहः / रागद्विषालिमृत एतदुदीर्यते न, मोक्षाध्वयानपरमारिसमौ यतस्तौ (च तो स्तः) ||5|| वेदत्रयं सकलजातिगतिश्रितानां संसारिणामिह परं नरजातिसंस्थः / शक्रोति रोद्धुमलमेनमुदित्वरश्रीराप्तागमोदितमरं व्रतमादधीत // 6 // कस्याश्चिन्न विवेकसम्पदमला तत्पूर्विका च क्रिया, कस्याश्चिन्न विचारवर्तनगतं सम्पत्ततेरान्तरम् / नत्वे ह्येव भवेन्मतेरनु पुनश्चेष्ठा विचित्रास्ततो, ब्रह्म स्यान्नरजन्मसु न तु पुनः शेषेऽङ्गिसार्थे कचित् // 7 // मोक्षो यद्यपि लभ्यते व्रतधरैराप्तागमोदीरितैस्तत्रापि प्रशमैकहेतुरमलं ब्रह्मैव सत्कारणम् / यत्तिष्ठन्नरजन्मधारणपरो मुक्तिं न चैवाश्नुते, कामोद्रेकपरस्तदत्र न मतं सिद्धं द्वितीयं पदम् // 8 //