________________ 74 जैनगीता। राज्ञोऽपि देशेषु परेषु सत्ता-कृते समित्यादिकृतिर्न युक्ता / चौर्ये कृतेऽन्योक्तिविरोधरोधौ, न्यायादपेतौ किमुत प्रशंसा // 20 // मुग्धान् प्रतार्यार्थक्षयं प्रतन्वन् , एतत् सहस्रैर्गुणितं प्रदाता / भवे परस्मिन् भुवनेश इत्यपि, वदन्नहा! किं जनतारिताभाक् / / 21 // कार्य निजैः श्राद्धमवश्यमार्यैः, परेतमातापितृपुत्रमुख्यैः / इत्थं वदन्तो नहि दग्धवृक्षं, निषिच्य लोकान् फलभाजनं व्यधुः / / 22 // मत्वा पापं चौर्यमाचर्य मूर्खाः, पातं श्वभ्रे निश्चितं लम्भितारः ( कुर्वते ते ) / . चेद्धर्मेति प्रोच्य मुष्णन्ति मुग्धान् , काऽमुत्र स्याद्दर्गतिस्तादृशानाम्।।२ ये स्वं निगद्य परमेशतयाऽवतीर्ण, - भक्ताजनाद् द्रविणधान्यवराङ्गनानाम् / आदाय विष्णुवदिहाऽधमकार्यवाहा, __ हा हा ! स्वभक्तसहिताः कुगतौ कथं स्युः // 24 // भक्तान् मृतान् परगतौ सुखसाधनानि, लेखं विलिख्य परमेश्वरतोऽर्पयामि / उक्त्वा हरन्ति धनसञ्चयमाश्रितेभ्यः, . केऽन्ये मलिम्लुच इहाग्र इमेभ्य आत्थ (विधर्मवन्तः)।२ एवंविधेषु कुमतेषु पटचरत्वं, दृष्ट्वा श्रयेद् व्रतपरान् गुरुदेवधर्मान जैनः परत्र सुगतेनियमाद्धि पात्रं, यस्माद्विशुद्धमतयः सुरसिद्धसौख्याः / / 26., यद्यपि शुद्धं धर्मं मत्वा, तद्वन्तं समुपास्य सुभक्त्या / गच्छति दिवमुदितात् शुभपुण्यात् , किमुताणुव्रतधरणे लीनः // 27 // // 24 //