________________ जैनगीता। यदपि साधनमिष्यत आहेतात , तदपि संयमपोषणकार्यतः / , गृहीतमप्यणु तद् भवेत् , कुलगणाश्रितमुज्झितमाश्रयैः // 12 // तनुमनोवचनानि परिग्रहो, गुरुपदेषु समर्पयतो न हि / अननुमत्य गुरून् स्फुटमादरात् , कृतिरदत्तपरिग्रहसङ्गकृत् // 13 // अनुदिनं तत आदित आर्हता, मुनिजनाः सततं नितरांश्रिताः / गणिपदे बहुवेलविधि व्यधु-र्भवति चैवमदत्तसमुज्झनम् // 14 // स्वामिता तिरश्चि यावतात्मजीवनं भवेनरम्य पोडशाद्रिका प्रसू पितुस्तु लौकिकी (ऽम्बयायुते च वप्तरि ) / मतेत आरतः श्रुते मुदा. हि शिष्यचोरिका, सुसंयमार्पणं न तत्र रक्षणं तथाविधेः // 15 / / याचित्वाऽऽहृतिवस्त्रपात्रनिचयं साधुन विज्ञापये दाचार्य प्रमुखं स्वलाभरतिकस्तत्तद्ग्रहायार्थनात् / श्रेष्ठोऽसौ न मतः शिवाध्वगमने यत् सा महारोधिका // 16 / / वासोच्छवासोऽपि साधोर्न भवति गणिनामाज्ञया वर्जितो नु, का वार्ताऽन्यस्य करणे चरणगतविधौ तस्य यन्न प्रभुत्वम् / कुत्राऽप्यर्थे यतोऽसौ न धरति तनुकं नैव गृह्णात्यदत्तं, दुःशक्यं चेत्तदेतद् जिनमुनिविधयः सर्व एवंविधा वै // 17|| मुष्णाति धाटी विजने धनेशान् , मुष्णन्ति चौरा छलमाप्य लोकान् / विमुष्य लोकान् छलशक्तिहीनाः , सर्वं मदीयं कथयन्ति विप्राः / / 18 / / न चोपकाराय जनस्य चौर्य, यतो भयात्तस्य भवत्यतन्द्रः / अनर्थकृन्नैव परार्थकारी, तथाऽत्र मुष्णन् परकीयमर्थम् // 19 / /