________________ जैनगीता। तिलापहाराय सुतः प्रवृत्त-श्चकार चौर्य नृपदण्डयोग्यम् / स्मत्वा स्ववृत्तं जननीविक्लप्तं, स्तनस्य मातुः परिकर्तनं यतः // 4 // समुत्सृष्टं स्वाम्यं स्वधनजनगतं सर्वविधया, गुरोः पार्श्वे दीक्षां यदि च चरितुं स्वीयकथनम् / गृहीता यावत्तदपरजनगतं जीवनकृते, ___ भवेद्याच्यं सर्वं यदि च भवतीहार्पितभुजः // 5 // अतोऽहिंसां धर्मे मुनिपतिरिहोक्त्वा वृतिकृते, जगौ साधोभिक्षाचरणविधिगं वाक्यनिचयम् / परैस्तीयस्त्विष्टं सकलखदनं स्वीययमने, - यत्तः प्रोक्तं प्राणावनकरणतोऽघं नहि भवेत् // 6 // भवेद् गृहस्थेषु परं मुनीनां, भक्तादि याश्चार्थगतौ विमानम् / तथाप्यदत्ते च परिग्रहेऽपि, व्रतोद्यतानां नहि दुष्करं भवेत् // 7 // आश्रयाशनवसनपात्रगं, न केवलं मुनिस्त्यजेदनर्पितम् / अर्पितेऽपि धनिना तदिच्छया, भोग एव यतिनां व्रते हितः // 8 // यत्र नास्ति धनिनः कचित् पदे, सत्त्वमाश्रितावनाय तु / योग्यमेव तदपि याचितं भवेदवग्रहग्रहणमित्युदीर्य च // 9 // जिनेन्द्रशासने मताश्चतुर्विधाः, समर्पकाः धनी भवी जिनो गुरुश्चतुर्विधः। ततश्च तेषु याचना // 10 // अन्तरायहानितो भवेत्तु लाभ आत्मन स्ततस्तदर्पणाद्विना आहे तु लाभबाधनम् / . परस्य सत्कमीप्स्यते विना व्रतस्य साधनं, तदापि लाभवाधनं भवान्तरेषु लाभहृत् // 11 //