________________ जैनगीता। अन्तर्मुहूर्ताद्भवतीहं मुक्ति-मिथ्यादृशां यद्यपि शुद्धमार्गात् / उत्सूत्रवाचां तु स एव दुर्लभो, भवेऽत्र तद्वद् च भवान्तरेष्वपि / / 19 / / अतीतसङ्ख्याः परतीर्थिका जने, श्रुते तु सप्त श्रुतमार्गबाधकाः / प्रोक्ता यतः स्युगृहभेदिनो जनाः , प्रचण्डदस्युभ्य उदारचण्डोः // 20 // गोशालको यद्यपि मृत्युकाले, सम्यक्त्वमाप्तस्तदपि प्रयाता / भवाननन्तान् जिनवीरवाचो-ऽन्यथाकृतौ सन्ततमाप्तमोदः // 21 // उत्सूत्रवाचो न नराः पराक्या-स्तत्त्वेऽपि यन्नैव तदुक्तिमाश्रिताः / श्रुतोक्तिबाह्या इति ते न जैना, अव्यक्तताट्या इति शास्त्रकाराः // 22 // यत्र पृथक्त्वे न जिनेशमार्गाद्, वित्ता जनेषु व्यवहारिकेषु / तत्राऽन्ययूथीयवदेव तस्मै, कृते कृतं कल्प्यत आर्हतानाम् // 23 / / जनो भवेद्दष्षमयाऽर्हदुक्त-मार्गावबोधी सुरुचिश्रितश्च / अल्पः, प्रभूताश्च भवेयुरई-दुक्तेतिमत्या विपरीतवृत्ताः // 24 / / यथा ह्यशक्तो निखिलाङ्गिहिंसा-विवर्जनेऽसौ सघातवर्जी। तथाऽत्र संसारगतो न सर्वा-नृतोक्तिहानौ प्रभुतापदं स्यात् / / 25 / / स्थूरानृतोक्तेर्विरतः स जह्यात् , कन्यापशुक्षित्यनृतानि नित्यम् / लोके यथाऽसौ भवति प्रतीतो, न स्यान्मृषावादपरः पुरुषः // 26 / / जनेऽपराधस्य विनिन्दितो यथा, कर्त्ताधिकस्तत्र भवन् हि साक्षी / सञ्चिन्त्य न स्यात् प्रतिभूस्तथात्वे, न्यासे न लुभ्येच परेण दत्ते / / 27 / / विवर्जयन्नेवमसत्यमुग्रं, क्रमेण सर्वानृतवर्जनाय / भवेत्समर्थो विदधाति दक्षतां, लघौ कृतोऽभ्यास उदारभावे // 28 //