________________ जैनीता। चतुर्विधं गीयत एतदाप्तः, सल्लुप्त्यसद्वादनतो द्वयं भवेत् / द्वयं तु गर्दाऽर्थपिधानतस्तथा, यथायथं तद्वयवहारमार्गे ... ||9| तत्त्वस्य गानेऽपि चतुर्विधं तद्, हेतुः फलं चास्य सुमार्गलोपः। : गीता ततः सत्यतया गिरा सा, याऽऽराधनीति प्रतिबुद्धमार्गः।।१।। लोके यथाऽनुगत आह सूर्य, समुद्गतं ह्यस्तमितं त्वस्तमेतम् / गवादिवस्त्वाश्रितमन्यथार्थं गुणान्वितस्यापि तथैव गर्दा // 11 // आराधनापक्षमुपेत्य योक्ता, जीवादयः सन्ति न चैव लोके / असङ्ख्यमाना भुवि लोकभागा, सतामप्रभाजनमार्षलुप्त्यै // 12 // सद्दृष्टयो ये वितथोक्तिशून्या-स्तथ्योक्तिशून्या अपि शुद्धदृष्टयः / या गीः समाराधनमार्गरूपा, न लेशतस्तत्र विरुद्धवादः // 13 // शस्यौघवज्जीवदयाऽत्र मुख्या, व्रतानि शेषाणि वृतेः समानि / सद्घातकाले ह्यपवादभाञ्जि, मृगादिरक्षार्थमतो मृघोदितिः // 14 // कृत्वा निवृत्तिं प्रथमाघधाम्न-च्छद्मस्थभावाच्च भवेद् व्यथाऽस्याः। तां शोघयेनैव मृषोक्तिमान ना, त्याज्या ध्रुवं सा वृजिनोघभीतैः / / 15 वधादयः कर्तृविबाधकाः परं, गणस्य बाधां तनुते मृषोक्तिः / ध्रुवन्ति विज्ञा व्यवहारजातं, सत्यप्रतिझं प्रकृते विवादे // 16 // एकत्र सर्वाणि भवेयुरंहः - स्थानानि, पक्षे पर, उक्तिरन्या / तयोर्मुषोक्तावधिकाऽयताति-यंतो न तद्वान् व्यवहर्तुमर्हः // 1 // जिनेन्द्रसूत्राद्विपरीतवादी, भजेदनन्तानि जनूंषि नित्यम् / बोधिर्भवेदस्य यतः सुदुर्लभः , परानृतोक्तौ तु विकल्पधाम // 18 //