________________ जैनगीता। ततं स्थावरहिंसनेऽसुनियमं कर्तुं गतोत्साहर्क, पृष्ट्वा जङ्गमजीवनाशविषयां दधुः प्रतिज्ञा पराम् पुत्राणां हनने नृपः प्रयतते षण्णां लघुन्यामसि, . श्रेष्ठयेकं तनुजं धरन्न भवति द्विष्टोऽपरेषूद्यमात् // 365 प्रव्रजता यतिना कुलं प्रजहता दोषो न किं क्लेशज , स्तस्येत्थं लपतो भवेद्रणपतेर्हत्या समा मोहिता / यद्भावावनमेव तद्विधिकृतं हानं न सङ्कलेशिता, ..... ना मत्तेप्सितवस्तुंदाननिपुणाः प्राज्ञा भवेयुर्जने // 37 // प्राप्तो दीक्षा निवृत्तिपदक- सद्रूणां प्रसादात्, त्यक्त्वा हिंसां सकलतनुभृतां याति देशान्तराणि / नद्योऽनेकाः स्वपरविषयगा उत्तरेत्स प्रचण्डा. .. इत्यादीनि हननविरतेर्वाधिकानि न किं स्युः // 38 // सत्यं हिंसां सकलतनुभृतां त्यक्तवान् प्रव्रजन् सन् , ' . तत्रोक्ते द्वे 'मुनिपतिमहितैः कारणे कर्मबन्धे / / रागो द्विट् का नहिं भवति मुनिः संयमी तद्विलिप्तो, यद्वत् सिध्यन् हृदमुखमयितो नाघलेशेन लिप्तः // 39 // जैनः स स्यात् प्रथिततममिदं रोचयेत् सव्रतं यो, धन्यः कुर्याद्विगतरतिको वर्जनं घातनायाः / सत्यं यद्वत् प्रतनुबलभृज्जायते मल्लयोधी, यः स्यानित्यं पटुतरकरणोऽभ्यासमेषोऽपि तद्वत् . // 40 // इत्येकोनविंशः अध्यायः //