________________ जैनगीता। प्राणातिपाताद्विरतिः श्रुतोक्ता, भावी वधो नैव च जीवतत्त्वे / भाधान्वितेषु प्रलयोऽत्र दृश्य-स्ताक्तमेतद्धयभिधानमस्य // 30 // अतः प्रयुक्तं श्रुतवारिराशौ, शुद्धः पदं प्राणवधानुसृत्या / नो चेत्समग्रेऽपि समानभावे जीवे हते स्यात् कथमंहसां भिदा ? // 31 // पुण्यानां निचयः क्षयोपशमिताऽनन्ता च चेदात्मनि, स्याबृद्धिः करणस्य सन्ततिगता स्पर्शादिकं संश्रिता / तन्नाशे सकलं बलं विलयितं तज्जीवगं हन्तृभि रेवं च गृहिणां बसेषु विरतिः शोभास्पदं गीयते // 32 // श्लाघायां ननु जङ्गमेषु विरतेः स्यात् स्थावराणां बधे, साधूनामनुमोदना भयवती त्यागस्त्वमीषां यतः / सर्वस्थावरजङ्गमाङ्गिविषयो ( हनने ) यावद्भवं सर्वथा, म्याञ्चषाऽनुमतिस्ततश्च विरतेभङ्गोऽतिदुःखावहः // 33 // श्राद्धाः किं त्रसराशिसङ्गतबधं स्वीयेन तन्त्रेण ते, प्रत्याचख्युरुताऽनगारसमीपे द्वेधाऽपि नाहं त्विदम् / / यस्मात् स्याद् व्रतधारणं गुरुमुखान्नैव स्वयं साधनं, तब स्यादनुमोदना स्थिरवधे दुष्टा गुरूणामपि // 34 // .. म्यार सत्यं चेद् गुरवो दिशेयुरखिलं घातं प्रतिज्ञोचितं, नो प्राक् तत्प्रथमात् परं यदि तके प्राहुः पुरस्तस्य चेत् / त्यागं स्थावरजीवगे पहनने स्युस्ते तदा दोषिता, ___आदावस्य समर्थने न शकितस्तत्कर्तुमल्पोद्यमः // 35 / /