________________ जैनगीता। सत्यं गृहस्थैः कृषिमुख्यरक्त-वधो न चैषां परिवर्जितुमलम् / तथापि किं दोषकरैरदौष्टयं, वक्तुं न शक्यं शुभबुद्धिमद्भिः // 14 // षट्कायगं ये परिवर्जयन्ति, वधं ब्रजेयुर्मुनिभावमुग्रम् / गृहाङ्गनाद्रव्यशरीरमौढयं, त्यजन्ति मोक्षाध्वगमैकबुद्धयः // 15 // महाव्रतं प्रोक्तमिदं त्वमीषां, त्रिधा त्रिधा कालमशेषमूढम् / षटकायिकानां वधमह आढयं, त्यजन्ति यावज्जीवमुद्धताघाः / / 16 / / नालम्भविष्णव इमां निखिलाङ्गिहिंसां, हातुं न ते शुभहृदः प्रतिजानते ताम् / शम्यं न यत् प्रतिपदं पचनादिसक्ते मिथ्याव्रतं च नहि ते प्रतिजानते वै // 17 // वधं ते त्रसानां विकल्पान्निरागो-गतं युक्तमुद्धाय सास्त्यिजेयुः / परं भावनां ते सदा धारयेयुः, समाङ्गिश्रिते घात आप्ता मतान / / 18 / / गाईन्थ्यमाश्रित्य सदा विहिंस्युः, क्षित्यादिकान् स्थावरभावमागतान् / षट्कायरक्षोद्यतचेतसोऽमी, नानर्थकं स्थावरगं च हन्युः // 19 // एतेऽणुव्रतधारका यदि परं स्युः साधुंभावोद्यता, आरम्भादि विहाय संश्रितकुलाः कुर्युर्दशैकाञ्चिताः / शास्त्रोक्ताः प्रतिमा यदा स्थिरहदो गृह्णन्ति सत्साधुता_मन्ये तद्रहिताः पुनर्मुनिपदं शीघ्र ग्रहीतुमलाः // 20 // नन्वेकत्र विशेषणं भवतु वो हिंसादिपापोज्झितौ, श्राद्धानामणु वा महन्मुनिवरे सार्थक्यमेवेदृशे / सत्यं तद् गृहिणां न सर्वनियमाङ्गीकार आवश्यकः, साधूनां निखिलात्रिधा त्रिविधया त्रैकालिकास्ते यमाः // 21 //