________________ जैनगीता। एवं सत्यपि ( वस्तु) चिन्तनपरास्तेषां वचो मन्वते, मिथ्या यन्न परीक्षकेषु लभते ख्यातिं व्यलीकोक्तिमान् // 6 // आये तत्त्व (धर्म) तया मते वधयमे नोक्तं परैः किञ्चन, तादृग्वाक्यमुदारभावभवनं नैवाहिताः पालकाः / नोक्तान्येव वधस्य शुद्धविरतौ सत्साधनानि श्रुते, मोक्षादिर्न फलं मतं वरतमाऽहिंसाहतानां कचित् // 7 // जीवानां हनने सदैव निरतास्ते धिक्कृता नैव तै नैवैषां दुरितार्द्रचित्तवचसां प्रेत्याऽशुभोक्ता गतिः / संसारे सरणं भयङ्करतरं दुःखौघसंदीपनाद्, दिष्टं जीववधावलीढकृतिभिः शास्त्रे स्वकीये क्वचित् (नहि) / / 8 / / स्वरूपं जीवानां विदितममलं नैव कुमतै र्यतः प्रोक्तं भिन्नं तदिह भवभृत्सु प्रभुपदे / ततो भाव्यं तैः साक् त्रितयदलवाग्भिरनिशं, भवेत्तत्त्वं भिन्नं किमुत नहि संभिन्नपदगात् // 9 // रारट यतेऽशेषकुतीर्थिकैरिदं, हेयो वधः प्राणभृतां प्रकामम् / परं यथा नाऽस्य फलादिवाच-स्तथैव भेदोदितयोऽपि नैव // 10 // गतीन्द्रियाद्या जिनपस्य शासने, भेदाः प्रगीता न तथा परस्मिन् / प्रत्यक्षतन्वादिपरिणतीनां, क्षित्यादिषु प्रेक्षणतोऽसवस्ते // 11 // ये स्थावराणां पृथिवीमुखाना, जीवत्वमाहुर्न विमुक्तबोधाः / ते निष्कराशिं प्रविमुच्य शुद्धा, भवन्ति कार्षापणदानदक्षाः // 12 // यो जीवराशिः स्थिरताश्रिताना-मनन्तभागेऽस्य परोऽस्ति राशिः। अन्योऽन्यगाहस्य परे न सत्त्वं, भवन्ति तत्तेऽनिधनाः कथं स्युः // 13 //