________________ जैनगीता। / एकोनविंशोऽध्यायः / ( अहिंसाव्रताधिकारः) / जैनो मन्यत आस्तिकेषु परमो नैवाघमुक्तिर्नृणां, पूज्याराध्यपदालिलीनमनसो ज्ञानाच्च तत्त्वावलेः / शुद्धं तन्मन उज्झतीह दुरितं ज्ञानं तथा तत्फलं, धमों हि प्रथमो मतः स विबुधैर्यः स्याच्छुभाचारवान् / / 1 / / घृन्दे सोऽधिपतिर्भवेद्य उदित-स्वाचारमग्नो भवेत् , सर्वज्ञो विगताघसन्ततिमलश्चारित्रमन्त्यं दधत् / ख्यातं रूपमलङघयत् सुविहिताचारं कषायोज्झितं, प्राप्त्यै तादृशमीश्वरं जनिरियं मे धन्यतामाश्रिता // 2 // अभ्यासयत्नोभयसाध्यमाय - राख्याय्यनुष्ठानमुदितिप्रतिष्ठम् / कार्य समस्ते द्विविधो भवेत्तत् , सिद्धस्तथा साधकभाववर्ती // 3 // सर्वज्ञा जितरागमुख्यदुरितास्त्यक्ताऽशुभध्यायिता, आचारेषु निरङ्कचारुचरणास्तत्सिद्धतामाश्रिताः / ये तु स्युः सततं चरित्ररमणाः कर्मापहारेप्सवः , किञ्चिच्चित्तमबाध्यकर्मविहिताद्वाध्यं धरन्तः परे // 4 // परस्तीथ्र्य देवा अभिमततमाः स्वर्गशिवदा स्तथा ये चोपास्यापदमनुगता गुरुपदगाः / न केषाश्चित्तेषां दुरितरुधिपरावृत्तिरणुरपि, तथापि प्राबल्याज (प्या वृत्तिर्ज ) ननिचयगता जैनकृतीनाम् // 5 // जीवानां हननं मषोक्तिरपरर्दत्तं न यत्तद्ग्रहो... ब्रह्मार्थग्रहणं च पापसचिवास्त्यागरत्वमीषां वृषः / . .