________________ जैनगीता। यथाऽग्निधूमादिषु पूर्वयोगा-द्रतिस्तथैषामपयोगयोगात् / धर्माद्यभावात् परतो न लोकाद्, मुक्तास्ततोऽग्रे स्मरतु स्वलीनान् // 22 // यथोपनेत्राद्विपुलं समीक्षते, सदोषदृष्टिः पुरुषस्तथाऽत्र / अचेतनेभ्यः सुखसम्पदिद्धा, निरङ्कदृष्टया तुलितं शिवे सुखम् / / 23 / / आत्मैव कर्म कलयेदणुसंहतत्वा-द्यत्रास्ति नैव कलनाऽणुसमूहजाता। नित्यं शिवं शिवपदं कलुषादिहीनं, मुक्तः पदं ननु निरञ्जनमीहनीयम् // 24 // प्रत्यात्मदशं निखिलार्थवित्त्वं, परं न चैकार्थगतो विभिन्नः / कस्यापि जन्तोरुपयोजनादर-स्ततोऽखिलात्माऽखिलवस्तुवेत्ता / / 25 / / अक्ष्णोर्यथा भिन्नतमो न चैवो-पयोग उक्तो विगुणात्मनोरपि / तथा समस्तार्थविदा क्षणे क्षणे-ऽभेदो भवेज्ज्ञानहशोः सदैव // 26 / / प्राक्केवलात् स्यादुपयोगयुग्मं, मिश्रोऽस्ति भावो मनसश्च वेगः / शिवे न तावात्मस्वरूपभावाद्, भवेन्न बाधा क्षणबोधदृष्टयोः // 27 // भिन्नेऽथ कालेऽप्युपयोजनं चे-नासौ प्रभावः परभावजातः / जीवस्वभावोऽत्र तथाविधाने, हेतुर्न चैवं शिवरूपबाधः // 28 // न जन्म तत्रास्ति ततो न काय-स्ततश्च संयोगवियोगजन्यम् / दुःखं न सौख्यं न निजात्मरूप-सुखोपभोगैकवसुः परात्मा / / 29 / / शिवं स्वरूपात्मकमेव तत्त्वा-नोत्पाद्यमाविर्भवति स्वरूपात् / न तत्र यत्नः पुरुषार्थभावात् , समग्रकर्मप्रलयः ततः सः // 30 // बन्धाभावो यदि च सुगुणतो निर्जरा चेत् समस्ता, श्रेण्यासाप्तेः प्रवरगुणगणोल्लासिवीर्यप्रभावात् /