________________ जैमगीता। आश्रवाः समुत्थिता अघोदयात् , केचन आयमुखोद्भवा अपि / संवराश्चरणमोहनासजाः, बन्धनं शमादिमोहजं पुनः / / कं नु भाषमाश्रयेत्तपस्त्विदम् / / 33 चरणमोहनाशतस्तपो ननु स्थायि यत् शिवे पदेऽघभावतः / नोदितं ततोऽद आर्यसत्तमै-हेतुकार्यहानितः शिवाध्वनि // 34 जैनो मोक्षाध्वयायी न च भवरतिमान् चारके यवदान्यः, क्षिप्तो निस्सर्तुमिच्छेद्विविधविधिपरस्तद्वदेषोऽपि नित्यम् / कर्मान्दोभञ्जनाय सततमुदितधीः संवरे निर्जरायां,.. बुद्ध्वा मोक्षाप्तिबीजं सरति तप इदं निर्जरानन्यहेतुम् // 35 इति सप्तदशोऽध्यायः / अष्टादशोऽध्यायः / ( मोक्षाधिकारः ) : जैनो- यः स्पृहयेन्ननु, सदा मोक्षाय संवेगभाग , निर्विण्णो भवचारकात् करुण या सिक्तो द्विधा दुःखिषु / आस्तिक्यादिगुणान्वितः स्वरमणः शान्तास्पदं निस्तुषं, . भक्त्यहाँ गुणकाक्षिणां शिवकृते स्वर्गादितुच्छं फलम् / / 1 // पर्यन्तभागे गदितोऽयमाप्तः, परं तदाप्तेन हि संश्रवाः किल / तदाश्रिता नैव परेऽपि भावाः, सनातनो मोक्ष इतः शुभं न वै // 2 // अनन्तविज्ञानमनन्तदर्शनं, सातं ह्यनन्तं निजरूपजातम् / / अनन्तसम्यक्त्वमनन्यरक्तिं, समग्रशक्त्याढ्यमजं यजेत् सदा // 3 //