________________ जैनगीता। कुर्यादिन्द्रियकोपनादिदमनं मोक्षाध्वहेतुं परं, तत् षोढा तप उच्यते बहिरितं शास्त्रे पवित्रेऽनघम् / एवं पूर्व विधानमार्ग उदित उत्सर्गतः सत्तमै रन्त्यान्त्यादरणं परे पथि परं सेव्यं श्रुतोक्त्याहतैः // 25 // यद्वाऽव्ययार्थ प्रयतो नरः स्यात् , पापस्य रोधे विगमे च सक्तः / भवेत्तथा चेच्छुचिभावनो भवेत् , स चेन्द्रियादेर्दमनान्न चान्यतः / / 26 / / सिद्धिस्तदीया तनुतापनादे-भवेद्विरामे विकृतेस्तु तत्पुनः / सझेपणेऽसौ भविताऽटनादेः, कुर्याच तञ्चेदवमोदरक्षमः / / 27 / / कुर्यात्स एव मतिमानवमोदरारों, यः स्यात् क्षमोऽशनमुखोद्वमने समर्थः / सम्बद्धता यदि मता विधयाऽनयाऽपि, क्षुण्णं न चैव जिनमार्गमुपाश्रितानाम् // 28 / / आन्तरे तपसि षड्विधेऽहता, योगमुख्यजातमह उज्झितुम् / शासने विधिः समुद्धृतो, न स, स्वप्नगोऽपि तीथिकेषु दृश्यते / / 29 / / गवादिपोषणः परेऽघशून्यतां, वदन्ति तामुपोषणादिभिर्जिनाः / योग्यतां विनीतगां गृहेशि परे, जिनास्तु पापवर्जकाश्रिताम् / (गृहाश्रमित्वमेव बीजमुद्धृतो, गुणैर्युतत्वमाहताः सुकृत्यगः) // 30 // वधादिदेशिकाः श्रुतिस्मृतीः परे, शिवाध्ववाहा गमांस्तु पाठने / क्षितीश्वरोर्ण संश्रितं परे जगुः, जिनाः पदार्थपापनिश्चयादिचिन्तने // 31 / / त्यागमेकमेव जीवने जिना उपाधिमान्तरेतरं पुनस्त्यजौ / तदेतदान्तरं तपस्तु षड़विधं, सदाऽऽश्रितं जिनेश्वराश्वगामिभिः / / 3 / /